________________
न्यायप्रवेशकवृत्तिपञ्जिका। परत्वमपरत्वं च परापराभिधान-प्रत्ययनिमित्तम्। तद् द्विविधम्-दिक्कृतं कालकृतं च । तत्रैकस्यामेव दिशि व्यवस्थितयोर्वर्तमानकालवर्तिनोरेव पिण्डयो: संयुक्तसंयोगबह्वल्पत्वे सत्येकस्य द्रष्टुः सन्निकृष्टमवधिं कृत्वा एतस्माद्विप्रकृष्टोऽयमिति परत्वाधारे परदिक्प्रदेशयोगाद्यः परोऽयमिति प्रत्ययो जायते स दिकृतपरत्वनिबन्धनः । अत्र च यस्य द्रष्ट्रपेक्षया बहवः संयुक्तसंयोगा: स परत्वस्याधारो विप्रकृष्टावधिक उच्यते । यस्य चाल्पा: संयुक्तसंयोगाः सोऽपरत्वाधारः सन्निकृष्टावधिक इति । यश्च विप्रकृष्टमवधिं कृत्वेतरस्मिन्नपरदिक्प्रदेशयोगादपरोऽयमिति प्रत्ययो जायते स दिकृतापरत्वनिबन्धनः । कालकृतं च यथा - वर्तमानकालयोरनियतदिग्देशसंयुक्तयोर्युव-स्थविरयो रूढश्मश्रुकार्कश्यवलीपलितादिसान्निध्ये सत्येकस्य द्रष्टुर्युवानमवधिं कृत्वा एतस्माद्विप्रकृष्टोऽयमिति परेण कालप्रदेशेन योगाद्यः परोऽयमिति स्थविरे प्रत्ययो जायते स कालकृतपरत्वनिबन्धनः । यश्च स्थविरमवधिं कृत्वा यून्यपरकालप्रदेशयोगादपरोऽयमिति प्रत्ययो जायते स कालकृतापरत्वहेतुकः ।
बुद्धिरुपलब्धिः प्रत्ययो ज्ञानमिति पर्यायाः । सा चानेकप्रकारा अर्थानन्त्यात् । तस्या अनेकविधत्वेऽपि समासतो द्वैविध्यमविद्या-विद्याभेदात् । ।
तत्राविद्या संशय-विपर्यया-ऽनध्यवसाय-स्वप्नभेदाच्चतुर्विधा । तत्र स्थाणुर्वा पुरुषो वेति मन्दमन्दप्रकाशे देशे ज्ञानं संशयः । गव्येवाश्व इति ज्ञानं विपर्ययः । यत्र वस्तुमात्रं पश्यतोऽपि तदुपदेशाभावाद् विशेषसंज्ञाप्रतिपत्तिर्न भवति यथेदममुकमिति सोऽनध्यवसायः । उपरतेन्द्रियग्रामस्य प्रतिनियतात्मप्रदेशस्थितमनस्कस्येन्द्रियद्वारेणैव यदनुभवनं मानसं तत् स्वप्नज्ञानम् ।
... विद्याऽपि चतुर्विधा प्रत्यक्ष-लैङ्गिक-स्मृत्यार्षभेदात् । तत्र यदवितथमव्यपदेश्यं व्यवसायात्मकं ज्ञानं तत् प्रत्यक्षम् । तत्राऽवितथमित्यनेन विपर्ययज्ञानस्य व्यवच्छेदः । व्यवसायात्मकमित्यनेन च संशयव्यवच्छेदः । अव्यपदेश्यमिति, व्यपदेशः शब्दः, तमर्हति व्यपदेश्यम्, तत्प्रतिषेधेनाव्यपदेश्यं शब्दाजन्यं ज्ञानम् । अनेन चेन्द्रियसहकारिणा शब्देन यज्जन्यते तद्व्यवच्छेदः । तथाहि-अकृतसङ्केतो रूपं पश्यन्नपिचक्षुषा रूपमिदमिति बुध्यस्वेति यावन्नोच्चार्यते केनापि तावत्तस्य रूपविषयं ज्ञानं न भवति, शब्दोच्चारणानन्तरं च भवति । इत्युभयजज्ञानं प्रत्यक्षं नोच्यते, किन्तु शाब्दमेवेत्याकूतम् । प्रत्यक्षस्य च विषयो द्रव्यं त्रिविधं पृथिव्यप्तेजोरूपमिति। महत्त्वादनेकद्रव्यवत्त्वाद्र्पविशेषाच्च त्रिविधस्यैव प्रत्यक्षता ।द्रव्यस्थानिचगुण-कर्म-सामान्यान्यपि प्रत्यक्षविषयः । तथा प्रमाण-फलादिव्यवस्था । यथा चक्षुरादिकारकसामग्री प्रमाणम् । द्रव्यादयः प्रमेयाः । प्रमाताऽऽत्मा । प्रमितिर्द्रव्यादिविषयं ज्ञानं फलमिति ।
१. ° त्वनिबन्धन: c. ॥ २. विषयत्वेऽपि J. ॥ ३. 'समयो रूपं J. P. ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org