________________
5
10
20
पार्श्वदेवगणिविरचिता
पुनरप्यैन्द्रयादिभेदेन दश दिक्संज्ञा लभन्ते । यथा ऐन्द्री आग्रेयी याम्या नैर्ऋती वारुणी वायवी सौमी ऐशानी ब्राह्मी नागी चेति । आत्मा तु जीवः । स च सूक्ष्मोऽप्रत्यक्ष नित्यो विभुर्बुद्ध्यादिविशेषगुणाश्रयः अनुस्मृति - प्रत्यभिज्ञानादिलिङ्गगम्य इति । मनस्तु करणान्तरम् । तच्चास्पर्शवत्त्वाद् द्रव्यानारम्भकम् । क्रियावत्त्वान्मूर्तम् । प्रयत्नादृष्टपरिग्रहवशादाशुसंचारि । आत्मेन्द्रियार्थसन्निकर्षे सति युगपज्ज्ञानानुत्पत्तिलिङ्ग प्रतिशरीर मे कमणुपरिमाणं बाह्येन्द्रियैरगृहीतस्य सुखादेग्रहकमिति ।
25
९८
10
परिमाणं मानव्यवहारकारणम् । तच्चतुर्विधम्- अणु-महद् - दीर्घ- ह्रस्वभेदात् । तत्राणुद्विविधम्-नित्यमनित्यं च । नित्यं परमाणु - मनस्सु पारिमाण्डल्यम् । अनित्यं द्वयणुक एव। तथा निरुपचरितं ह्रस्वत्वमपि । तथा महदपि द्विविधं नित्यानित्यभेदात् । तत्र नित्यमाकाश-काल-दिगात्मसु परममहत्त्वम् । अनित्यं च द्व्यणुकादावेव । तथाऽभक्तं दीर्घत्वमपि । तथा कुवलाऽऽमुलक - बिल्वादिषु महत् परिमाणम् । तथा. तत्प्रकर्षभावाभावमपेक्ष्य तेष्वेव भाक्तमणुत्वमपि । तथाहि - कुवलापेक्षयाऽऽमलकं महत्तदपि च बिल्वापेक्षयाऽण्वित्येवमन्यत्रापि । तथेक्षुवंशादिष्वञ्जसा दीर्घत्वम् । तेष्वेव तत्प्रकर्षभावाभावमपेक्ष्य भाक्तं ह्रस्वत्वमपि । तत्र महत्सु दीर्घमानीयतां दीर्घेषु च महदानीयतामिति व्यवहारदर्शनाद्दीर्घत्व-महत्त्वयोः परस्परतो विशेषो ज्ञेयः । अणुत्वहुस्वत्वयोश्चाऽभाक्तयोः परस्परतो विशेषो योगिनामेव प्रत्यक्ष इति ।
15
15
गुणा इत्यादि [पृ०४१ पं० २ ] । तत्र चक्षुर्ग्राह्यं रूपं शुक्लाद्यनेकप्रकारम् । रसनाग्राह्यो रसस्तिक्तादिः षड्विधः । घ्राणग्राह्यो गन्धः सुरभिरसुरभिश्च । त्वगिन्द्रियग्राह्यः स्पर्शः शीतोष्णानुष्णाशीतभेदात् त्रिविधः । एकादिव्यवहारहेतुः संख्या । तत्रैकद्रव्यविषया एकस्वरूपा । अनेकद्रव्या तु द्वित्वादिका परार्धान्ता । एतस्याश्च खल्वेकत्वेभ्योऽनेकविषयबुद्धिसहितेभ्यो निष्पत्तिरिति ।
5
20
पृथग्भावः पृथक्त्वम् । अयमस्मात् पृथगिति पृथग्व्यवहारकारणम् । अप्राप्तयोः प्राप्तिः संयोगः । स च त्रिविधः अन्यतरकर्मज उभयकर्मजः संयोगजश्च संयोगः । तत्रान्यतरकर्मजः क्रियावता निष्क्रियस्य यथा स्थाणोः श्येनेन विभूनां च मूर्तेः । उभयकर्मजो विरुद्धदिक्क्रिययोः सन्निपातो यथा मल्लयोर्मेषयोर्वा । विरुद्धदिशि क्रिये ययोस्तौ तथा, तयोरिति । संयोगजश्च संयोगो यथा तन्तु - वीरणयोः संयोगे तदारब्धपटे वा वीरणसंयोग इति । कारणसंयोगिना हि कार्यमवश्यं संयुज्यत इति न्यायात् ।
25
प्राप्तिपूर्विकाऽप्राप्तिर्विभागः । स च त्रिविधः । तत्रान्यतरकर्मजोभयकर्मजौ संयोगवत् । विभागजश्च विभागो यथा वंशदलयोर्विभागे तदवष्टब्धाकाशेन च विभाग इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org