________________
5
10
न्यायप्रवेशक वृत्तिपञ्जिका ।
९७
अर्थमिति [पृ०४० पं०१४] कार्यमुपकारमित्यर्थः । नान्यस्येति ज्ञानमयस्य, कुतः तथोपलब्धेः बाह्योपकारकत्वेनैव तेषां दर्शनात् इति यावत् ।
15
आहेत्यादि [पृ०४० पं०१५] । अयं हि सङ्घातत्वलक्षणो हेतुर्यथा साङ्ख्याभिप्रेतं चक्षुरादीनामसंहतपारार्थ्यं साधयति तथा साध्यधर्मविशेषविपरीतं तेषां संहतपारार्थ्यमपि साधयतीति [पृ०३९ पं०१२] सूत्रोक्त्या साधारणानैकान्तिकभेदान्नातिरिच्यते । विपक्ष एव वर्त्तमानश्च विरुद्धो भवति । अतः सामान्यं विरुद्धलक्षणं न घटते इति प्रेर्यार्थः । उत्तरवादी तुमन्यते सूत्रे एवंविधोक्त्याऽपि निर्देशे तत्त्वतो विपक्ष एवासौ वर्त्तते । कथम् ? इति चेद् आह- असंहतपरेति । तत्रैवेति [ पृ०४० पं०१६] संहतपरे । किं नोपपद्यते किं न घटते ? विरुद्धसामान्यलक्षणं घटत एवेत्यर्थः ।
धर्मा अस्येत्यादि [पृ०४० पं०१८ ] । धर्माः सत्प्रत्ययकर्तृत्व- सर्वगतत्वा-ऽमूर्त्तत्वनिष्क्रियत्वादयः । धम्र्मी भावाख्योऽत्र । ततो धर्मिणो भावाख्यस्य स्वरूपं महासामान्यलक्षणं धर्मस्वरूपं तस्य विपरीतमवान्तरसामान्यरूपं तस्य साधनः ।
15
तत्रेति [पृ०४१ पं०१] तेषु षट्पदार्थेषु मध्ये । तत्र पृथिवीद्रव्यविषयस्त्रिविधः मृत्-पाषाण-स्थावरलक्षणः । तत्र भूप्रदेशाः प्राकारेष्टकादयो मृद्विकाराः । पाषाणा उपलमणि-वज्रादयः। स्थावराः तृणौषधि-वृक्षादयः । अपद्रव्यविषयो हिम-करक-सरित्समुद्रादिः। तेजोद्रव्यविषयश्चतुर्धा भौमदिव्योदर्याकरजभेदात् । तत्र भौमं तेजः काष्ठेन्धनप्रभवमूर्ध्वज्वलनस्वभावं पचनस्वेदनादिसमर्थम् । दिव्यं सौरं विद्युदादि च । भुक्तस्याहारस्य रसादिपरिणामजनकमुदर्यम् । आकरजं सुवर्णादि । वायुद्रव्यं च तिर्यग् गमनस्वभावकं मेघादिप्रेरणधारणादिसमर्थं त्वगिन्द्रियग्राह्यमिति । आकाशं नभः, तच्चैकं महत्परिमाणम् अनाश्रितं नित्यम् सर्वप्राणिनां शब्दोपलब्धिहेतुरिति । कालः क्षण-लवनिमेष-काष्ठा-कला- मुहूर्त - यामाऽहोरात्राऽर्धमास-मासर्त्वयन - संवत्सर - युग-कल्प-मन्वन्तरप्रलय-महाप्रलयव्यवहारहेतुरिति । दिक् पूर्वापरादिप्रत्ययलिङ्गा । मूर्तं द्रव्यमवधिं कृत्वा 20 मूर्तेष्वेव द्रव्येष्वेतस्मादिदं पूर्वेण दक्षिणेन पश्चिमेनोत्तरेण पूर्वदक्षिणेन दक्षिणापरेण अपरोत्तरेण 20 उत्तरपूर्वेण अधस्तादुपरिष्टाच्चेति दश प्रत्यया यतो भवन्ति सा दिगिति । तत्र मेरुं प्रदक्षिणमावर्तयतः सवितुर्ये संयोगा लोकपालपरिगृहीतदिक् प्रदेशानां ते देवतापरिग्रहवशात्
१. एतद् वैशेषिकमतं प्रशस्तपादभाष्यानुसारि । अतो विशेषजिज्ञासुभिः प्रशस्तपादभाष्यं तस्य व्योमवती - कन्दली - किरणावल्यादयः टीकाश्च विलोकनीयाः ॥
Jain Education International
5
For Private & Personal Use Only
10
www.jainelibrary.org