________________
पार्श्वदेवगणिविरचिता तथाऽपीहानुक्तापीच्छाविषयीकृता प्रस्तावायाता आत्मार्थता साध्या । तदधिकरणत्वाद्विवादस्य। एतेनेच्छयापि व्याप्तः पक्ष इति प्राग् यदुक्तं तन्निदर्शितम् । यद्येवं तर्हि किमर्थं सामान्येन परार्था इत्युक्तं यावता साक्षादात्मार्थाश्चक्षुरादय इत्यपि परेण कस्मान्नोक्तमिति चेदुच्यतेशयनासनादिषु हि पुरुषोपभोगाङ्गेष्वात्मार्थत्वेनान्वयो न प्रसिद्धः, संघातत्वस्य पारार्थ्यमात्रेण तु सिद्धस्ततः परार्था इत्युक्तम् । अयं च भावार्थ:-साध्ययुक्तो हेतुर्दृष्टान्ते दर्शनीयः, 5 असंहतपारार्थ्यं चेह साध्यम् । तच्च एतेषु न प्रसिद्धम् । संहतपरं प्रत्येवोपकारजनकत्वेन 5 तेषां शयनासनादीनां दर्शनात् ।
संघातत्वादिति [पृ०४० पं०६] । संचितिरूपत्वादित्यर्थः । अथ चक्षुरादीनां संघातत्वं कथमिति चेत्, उच्यते । चक्षुरादयो हि परमाणुनिचयस्वभावास्ततः संघातरूपा उच्यन्ते । शयनं चाऽऽसनं च ते आदिर्येषां पीठिकादीनां तेषामङ्गान्युत्पलेशादीनि तानीव तद्वत् । न्यायबिन्दौ तु शयनासनाद्येवाङ्गं पुरुषोपभोगाङ्गत्वात् तदिव तद्वदिति व्याख्यानं कृतं .. तदप्यदुष्टमेवेति । साध्यान्वितहेतोर्व्याप्तिप्रदर्शनविषयोऽयं दृष्टान्तः । यथा हि शयनासनादयः
संघातरूपाः पुरुषस्य भोगिनो भवन्त्युपकारका इति परार्था उच्यन्ते एवं चक्षुरादयोऽपि धर्मिणः संघातत्वादसंह तपरार्था इत्यर्थः । परार्थभावमिति [पृ०४० पं०९] परोपकारकत्वमित्यर्थः । सावयवत्वमपीति [पृ०४० पं०१०] । सावयवात्मनो बाह्य स्योपकार क त्वमपि चक्षुरादीनां साधयति । कथंभूतं संह तत्वम् ? । साध्यधर्मविशेषविपरीतम् [पृ०३९ पं०१४] । साध्यश्चासौ धर्मश्च पारार्थ्यलक्षणस्तस्य विशेषोऽसंहतत्वं तस्य विपरीतं संहतत्वम् । तत् साधयति सूत्रपदमिदम्। न चेदं वाच्यं 15 संहतपरस्य साधनमन्तरेणापि सिद्धत्वात् प्रयोगवैफल्यापत्तेरसंहतपरं प्रत्येवोपकारकत्वं 15
चक्षुरादीनां सिध्यति इति, यतो न प्रयोगवैफल्यापत्तेः काचित् साध्यसिद्धिर्भवत्यपि तु हेतुवशाद्, हेतुश्चायं विपक्षेऽपि भावान्नाभिलषितार्थसाधको वर्त्तत इति । अथैको हेतुः कथं साध्यद्वयं साधयति? येन गमक: स्यादित्याह- तथा चेति [पृ०४०पं०१२] ।
१ "यथा परार्थाश्चक्षुरादयः, संघातत्वात्, शयनासनाद्यङ्गवदिति । [न्यायबिन्दौ ३/८९,९०] ... शयनासनाद्यङ्गवदिति । शयनमासनं च ते आदिर्यस्य तच्छयनासनादि पुरुषोपभोगाङ्गं संघातरूपम्, तद्वत्... यथेति
चक्षुरादय इति धर्मी, परः अर्थः प्रयोजनं संस्कार्य उपकर्तव्यो येषां ते परार्था इति साध्यम् । संघातत्वात् 20 संचितरूपत्वादिति हेतुः । चक्षुरादयो हि परमाणुसंचितिरूपाः ततः संघातरूपा उच्यन्ते । शयनमासनं चादिर्यस्य तत् 20
शयनासनादि। तदेवाङ्गं पुरुषोपभोगाङ्गत्वात् । अयं व्याप्तिप्रदर्शनविषयो दृष्टान्तः । अत्र हि पारार्थ्येन संहतत्वं व्याप्तम्। यतः शयनासनादयः संघातरूपाः पुरुषस्य भोगिनो भवन्त्युपकारका इति परार्था उच्यन्ते।'' इति न्यायबिन्दोर्धर्मोत्तरविरचितायां व्याख्यायाम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org