________________
न्यायप्रवेशकवृत्तिपञ्जिका। क्रियते । यदा तु सिद्धेरिति अरहितः पाठः तदा विरुद्धस्येति शेषः कार्यः । यत एवासिद्धो विपर्ययं न साधयत्यत एवासिद्धादस्य पृथगुपन्यास इत्याह-एतदिति [पृ०३९ पं०८] । विपर्ययसाधकत्वप्रधानत्वाच्च विरुद्धोपन्यासस्य ।
__ यथा च विरुद्धस्य विपर्ययसाधकत्वादुपन्यास एवमनैकान्तिकस्यापि सपक्षविपक्षगामित्वेन साध्यानिश्चयकारकत्वादुपन्यासोऽत एवाह-अन्यथेति [पृ०३९ पं०९], यदि 5 किञ्चिद्भेदेन भेदो नोच्यतेऽस्य, किं तर्हि ? अपक्षधर्मः सन् हेतुरसिद्ध एव स्यात्, न 5 विरुद्धः, तदा न केवलं विरुद्धस्य, अनैकान्तिकस्यापि हेतुसमूहस्यासिद्धत्वप्राप्तिः । कुत इत्याह-नित्यत्वादीति [पृ०३९ पं०९], प्रमेयत्वादयो नित्यत्वाद्युपन्यस्तसाध्यसाधकत्वेन न सिध्यन्ति, नित्यत्वादिकं साध्यं साधयितुं न समर्था भवन्तीत्यसिद्धाः, तेषां भावस्तत्त्वम्, तस्मात् ।
अयमत्र भावार्थ:- उपन्यस्तसाध्यासाधको हि हेतुरसिद्ध एवोच्यते इतीदं किल 10 सामान्यमसिद्धलक्षणम्, प्रमेयत्वादयोऽपि चोपन्यस्तनित्यत्वादिस्वसाध्यसाधका न वर्त्तन्ते, 10
अतस्तेषामपि स्वसाध्यासाधकत्वेनासिद्धत्वप्राप्तिरे व स्यात् । तस्मादुभयगामित्वविपर्ययसाधकत्वाभ्यामसिद्धादनैकान्तिक-विरुद्धयोः पृथगुपन्यास इति स्थितम् ।
धर्मस्य परार्थस्य विशेषोऽसंहतपरार्थत्वं धर्मविशेषः । तस्य साधनः परार्था इति । परस्मै इमे परार्थाः । परार्थाः परस्योपकारका इत्यर्थः । यद्वा पर आत्मलक्षणोऽर्थः प्रयोजनमुपकर्तव्यतया येषां ते परार्थाः । चक्षुरादिर्येषां श्रोत्रादीनां ते चक्षुरादयः । कः पुनरित्यादि [पृ०४० पं०२] । आत्माऽस्तीति ब्रुवाणः सांख्यः कुत एतदिति पृष्टः सन् बौद्धनात्मनः सिद्धये इदं प्रमाणमाहेत्यर्थः । अथ कोऽत्र धर्मी कश्च साध्यो धर्म इत्याहइह चेति [पृ०४० पं०२] । महानिति बुद्धराख्या । अथात्र कीदृशो धर्मविशेषः साधयितुमिष्ट इत्याह- अस्य चेति [पृ०४० पं०४] । अस्येति सांख्यस्य वादिनः । असंहते विषये परार्थत्वमसंहतपरार्थत्वमिति समासः । अन्यथेति यद्यसंहतपारार्थ्यं विशेषतया नेष्यते इत्यन्यथाशब्दार्थः । सिद्धस्य संहतपरस्य साध्यता तस्या आपत्तिस्तया । यतो विरुद्धवादनिराकरणाय स्ववादप्रतिष्ठापनाय च साधनमुपन्यस्यते । संहतपरार्थत्वे च चक्षुरादीनां 20 साध्ये विवादोऽपि नास्ति, तदिहासंहतपरार्थाश्चक्षुरादय इति प्रतिज्ञार्थो द्रष्टव्यः, असंहतपरश्चात्मेति। तदत्र प्रमाणे यद्यपि आत्मार्थाश्चक्षुरादय इत्यात्मार्थता वचनेन नोक्ता
20
25
१ नब्रहित: J. ॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org