Book Title: Nyayapraveshakashastram
Author(s): Jambuvijay
Publisher: Motilal Banarasidas

View full book text
Previous | Next

Page 137
________________ न्यायप्रवेशकवृत्तिपञ्जिका। सामान्येन सत्प्रत्ययस्तदपि सत्प्रत्ययविषयं ततस्तत्राप्यन्येन सत्प्रत्ययः तत्राप्यन्येनेत्यनवस्था। तथा समवायेऽपि । समवायस्यैकत्वात् समवाये सामान्ययोजकस्यापरसमवायस्याभावात् कथं सामान्यवशात् सत्प्रत्ययः । विशेषेष्वपि न सामान्यसंबन्धोऽस्ति। समानानां हि भाव: सामान्यम् । तच्च साधारणं रूपम् । विशेषाणां च विसदृशरूपत्वात् कथं ते समानरूपा भवितुमर्हन्ति ? विशेषत्वायोगप्रसङ्गात् । किञ्च, विशेषेषु सत्तासंबन्धे तेषां समानरूपत्वात् संशयोत्पत्तौ निर्णयार्थमन्यो विशेषः । तत्राप्यन्यसत्तासम्बन्धे सति संशयविषयत्वादन्यो निर्णयार्थं विशेषो वाच्य इत्यत्राप्यनवस्थैव प्रसज्यते । इति न सामान्यस्य तेष्वपि योग इति । तस्माद् गौण एव सत्प्रत्ययः सामान्यसमवायविशेषेष्वित्यलं प्रसङ्गेन । विस्तरार्थिना तु व्योमटीकादि निरीक्षणीयम् । प्रकृतमनुस्रियते- तथाहीत्यादि [पृ०४३ पं०१२] । अयं प्रयोगार्थ:- यथा द्रव्यत्वं नवसु द्रव्येषु वर्तमानमपि न सत्प्रत्ययकर्तृ एवं भावोऽप्येकैकस्मिन्द्रव्ये वर्तमानो न सत्प्रत्ययकर्तेति। अथ द्रव्यत्वं सत्प्रत्ययकर्तृ स्यात् ततस्तद्बलेन भावोऽपि सत्प्रत्ययकर्ता स्यादित्याह- न चेति [पृ०४३ पं०१४] । न सत्प्रत्ययकर्तृ न सद्बुद्ध्युत्पादकम् । एवमिति [पृ०४३ पं०१४] । गुण-कर्मणो वौ, तौ च तौ हेतू च, तयोरपि विषये वाच्यम् । यथा न सत्प्रत्ययकर्ता भावो गुणेषु भावात् गुणत्ववत् तथा कर्मसु भावात् कर्मत्ववत् । न च गुणत्वं कर्मत्वं च सत्प्रत्ययकर्तृ । गुणप्रत्यय-कर्मप्रत्ययकर्तृत्वादिति । उभयत्रेति [पृ०४३ पं०१५] द्रव्यादिनिषेधेऽसत्प्रत्ययकर्तृत्वे च गमकत्वादित्यर्थः । आक्षेपेत्यादि [पृ०४३ पं०१५], आह-अयमसिद्धान्न विशिष्यत इत्याधुक्तावत्र बहु वक्तव्यमित्येतत्पर्यन्तौ सौँ द्रष्टव्यौ ॥ सांप्रतमित्यादि [१०४३ पं०१७] । तत्रेत्येवं सति [पृ०४३ पं०१८] । तत्र साधर्म्यणेति [पृ०४४ पं०४] । तत्र तयोः साधर्म्यवैधर्म्यदृष्टान्ताभासयोर्मध्ये । साधनं चासौ धर्मश्च साधनधर्मः । क इत्याह- हेतुरिति [पृ०४४ पं०६] वाऽऽहितेत्यादि [पृ०४४ पं०८] । आहिताग्निप्रभृतिषु शब्देषु विकल्पेन बहुव्रीहौ पूर्वनिपातो भवतीत्यर्थः । अथायं तत्र न दृश्यते, अतस्तदवस्थमेव प्रेर्यमित्याहआहितेत्यादि। विकल्पवृत्तेरिति । पूर्वनिपातनस्य विकल्पेन प्रवर्तनादित्यर्थः । १. दृश्यतां पृ. ३९ पं०५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192