Book Title: Nyayapraveshakashastram
Author(s): Jambuvijay
Publisher: Motilal Banarasidas

View full book text
Previous | Next

Page 142
________________ ११४ पार्श्वदेवगणिविरचिता तस्यात्रैवान्तर्भावं मन्यत इति लक्ष्यते । यत्र विनेति [पृ०४९ पं०६] । यत्र प्रयोगे नित्यत्वादिसाधके नित्यः शब्दोऽमूर्तत्वादिति प्रभण्य यदनित्यं तन्मूर्तं दृष्टमित्येवं साध्यसाधननिवृत्तिमकृत्वैव घटेऽनित्यत्वं मूर्तत्वं च दृष्टमिति साध्यसाधनाभावमात्रं दर्शयति यदा तदाऽव्यतिरेक उच्यते । अथैवमपि भवतु को दोष: स्यादित्याह इत्थं हीति [पृ०४९ पं०१०] । एकत्रेति घटादौ । अभिधेयमानं साध्यसाधनयोरभावप्रदर्शनमात्रम्, तस्याभिधानात् प्रतिपादनात् । वैधर्म्यप्रतिपादनं च यदनित्यं तन्मूर्तं दृष्टमित्याद्यनुच्चारणेन कृत्वाऽर्थापत्त्यादिना गम्यत्वे साध्यसाधननिवृत्तेरित्यर्थः । इह हि व्यतिरेकवाक्यमनुक्त्वैव वैधर्म्यदृष्टान्तोऽसादृश्यमात्रेण साधक उपन्यस्तो न च तथा गमको भवतीति इष्टार्थासाधकत्वमतः स्वयमदुष्टोऽपि वक्तुरपराधाद् दुष्टः । साधने च वक्तुरपि दोषाश्चिन्त्यन्ते । साध्याभावे साधनाभावोपदर्शनं व्यतिरेक उच्यते । प्रस्तुतप्रयोगे एवेति [पृ०४९ पं०१३] नित्यः शब्दोऽमूर्तत्वादिति प्रतिज्ञाहेतुस्वरूपे। तथाविधः साध्यसाधनानुगतो योऽसौ साधर्म्यदृष्टान्त आकाशादिकस्तेन युक्ते यदा यन्मूर्त तदनित्यमिति [पृ०४९ पं०१५] साधनाभावे साध्याभावं दर्शयति तदा विपरीतव्यतिरेकः । - इह वैधर्म्यप्रयोगे साध्याभावे साधनाभावोपदर्शने व्यभिचारो न भवति । साधनाभावे च साध्याभावोपदर्शने व्यभिचार एव । तथाहि- यन्मूर्तं तदनित्यमित्युक्ते परमाणुना व्यभिचारः। स हि मूर्तोऽथ च नित्य एवेति । तथाऽनित्यत्वसाधकवैधर्म्यप्रयोगेऽपि साधनाभावपूर्वके साध्याभावे प्रदर्श्यमाने व्यभिचार एवेति प्रश्नपूर्वकं वक्तुमाह- आहेत्यादि [पृ०४९ पं०१५]। एवमपीति व्यतिरेकप्रयोगे साधनाभावे साध्याभावोपदर्शने क्रियमाणे इत्यर्थः । विद्युदादौ व्यभिचार [पृ०४९ पं०१७] इति विद्युदादीनामप्रयत्नानन्तरीयकाणामप्यनित्यत्वादिति भावः। आभासत्वादेवेति [पृ०५० पं०१] पक्षादिसादृश्यादेव । न तु सम्यक्पक्षादित्वेन । अयमर्थः- साध्यसिद्ध्यर्थमेते उपादीयन्ते । तदकरणाच्च तत्स्थानप्रयुक्तत्वात् पक्षादीनामाभासता । अत एव चैषां न साधनत्वमिति । यदि दूषणस्यावसरस्तर्युच्यतामित्याह - तच्चेति [पृ०५० पं०६] । दूषणातिक्रमण च तदाभासस्याप्यतिक्रमो द्रष्टव्यः । [पृ०५० पं०७] आत्मप्रत्यायनार्थमित्यात्मावबोधार्थम्। अथ प्रत्यक्षानुमाने इत्येवमेकविभक्तिनिर्देशोऽस्त्वित्याह- असमासेत्यादि [पृ०५० पं०८] । भिन्नश्चासौ विषयश्च तस्य ज्ञापनार्थम्। एतेन प्रत्यक्षानुमानविषये संख्या-लक्षण-गोचरफलविषयायाश्चतुर्विधाया विप्रतिपत्तेमध्ये गोचरविप्रतिपत्तिं निराकरोति । गोचरश्च विषय Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192