Book Title: Nyayapraveshakashastram
Author(s): Jambuvijay
Publisher: Motilal Banarasidas

View full book text
Previous | Next

Page 147
________________ न्यायप्रवेशकवृत्तिपञ्जिका। ११९ योऽपि च 'अर्थेन विवक्षा जन्यते विवक्षया च शब्दः' इति विवक्षया कार्यकारणभाव: शब्दार्थयोर भ्युपगतः सोऽपि संव्यवहारार्थम्, न तु तत्त्वतः । ततः शब्दार्थयोः संबन्धाभावाज्ज्ञानेन गृह्यमाणेऽर्थे शब्दाकारस्य ज्ञानेऽप्रतिभासनान्निर्विकल्पकमेव प्रत्यक्षं प्रमाणम्। प्रत्यक्षपृष्ठभावी तु विकल्पो गृहीतग्राहित्वादप्रमाणः । तथाहि- प्रत्यक्षपरिच्छिन्न एवार्थो विकल्पेन विकल्प्यतेऽतो गृहीतग्राही। परं यत्रार्थे प्रत्यक्षपृष्ठभावी विकल्प उत्पद्यते तत्रैव प्रत्यक्षस्य प्रामाण्यमिति विज्ञेयम् । तत्त्ववृत्तिरियम् । व्यवहारस्त्वेवम् । यथा रूपमात्रग्राहीन्द्रियज्ञानमुत्पद्यते । तेन च रूपसंतानमात्रं प्रवृत्तिविषयीक्रियते । तेन तेषु रूपक्षणेषु द्वितीयादिषु संव्यवहार इति । तदित्यनेनेत्यादि [पृ०५१ पं०१२] । यदा यच्छब्देन निर्दिष्टं यनिर्दिष्टं तस्य परामर्शः संस्पर्शः प्रत्यक्षमित्यत्र ।। ___ तत्पुरुषस्तावददुष्टोऽतः स संप्रदर्शितो वृत्तिकृता । अव्ययीभावोऽप्यदुष्ट एवातस्तं सूत्रकार उपदर्शयति- अक्षमक्षं प्रतीत्यादिना [पृ०५० पं०१४] । नन्वेवं सति प्रत्यक्षो घट: प्रत्यक्षा शाटिकेति न स्यात् । उच्यते । प्रत्यक्षज्ञानहेतुत्वात् सोऽपि साऽपि वा प्रत्यक्षः प्रत्यक्षा इत्युपचारात् पुंस्त्वं स्त्रीत्वं वा स्यात् प्रत्यक्षशब्दस्य । आहेत्यादि [पृ०५१ पं०१३] । विषयसामर्थ्यादपीति न केवलं स्वप्नादौ निर्गोचरमप्युत्पद्यत इत्यर्थः। तदिहार्थस्यापि ज्ञानकारणत्वाद्यथा ज्ञानं प्रत्यक्षमित्युक्तं तथा प्रत्यर्थं चेत्यपि वक्तुं युक्तमिति प्रेर्यार्थः । उभयोरपि साधारणासाधारणत्वं भावयति-तथाहीत्यादिना [पृ०५१ पं०१५] । अथ किमर्थ इन्द्रियविज्ञानस्य हेतुर्न भवतीत्याह-अर्थस्त्विति । मनोविज्ञानस्यापीति [पृ०५१ पं०१६] संकल्पजह दयज्ञानस्य तथा मानसप्रत्यक्षस्यापि चेत्यर्थः । अथ यद्यसाधारणमिन्द्रियमर्थस्तु साधारणस्तथाऽपि किमित्यसाधारणेनैव व्यपदेशः कृतो न साधारणेनेत्याह- असाधारणेन चेति [पृ०५१ पं०१६] । व्यपदेशस्य भणनस्य वृत्तिः प्रवृत्तिः । क्व ? यथेत्याह [पृ०५१ पं०१७] । भेरीत्यादि । भेरीशब्दोत्पत्तौ भेर्यसाधारणं कारणम् । तत्र हि पुरुषप्रयत्ननिर्वो वादनादिको व्यापारोऽस्ति । न हि तया केवलया शब्दो जन्यते । तथा क्षिति-सलिल-पवनादीन्यपि कारणानि सन्ति यवाकुरोत्पत्तौ । किंतु न तेषां व्यपदेशः साधारणत्वादन्यस्यापि युगन्धर्याद्यकुरस्य निष्पादने समर्थत्वात्तेषाम्, यव इति चासाधारणम् । अतस्तेनैव व्यपदेशः। तद् व्यपदिश्यत इति तत् प्रत्यक्षं ज्ञानम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192