Book Title: Nyayapraveshakashastram
Author(s): Jambuvijay
Publisher: Motilal Banarasidas

View full book text
Previous | Next

Page 150
________________ १२२ पार्श्वदेवगणिविरचिता ततश्च प्रमाणात् प्रमेये रूपादौ परिच्छित्त्यादिलक्षणेन फलेन पृथग् भवितव्यम् । यथा परशोवृक्षादौ छेद्ये द्वैधीभावादिकं फलं पृथगित्यतो मीमांसकेनेन्द्रियं प्रमाणं तस्य चार्थेन संगतिर्मनसो वेन्द्रियैर्योग इत्यादि प्रमाणमिष्यते। अर्थावबोधश्च फलं हानोपादानादिकं चेति। तेन पूर्वं पूर्व प्रमाणमुत्तरम् उत्तरं फलमिति संपद्यते । तथा नैयायिकादयोऽप्येवंभूतमेव प्रमाणफलमिच्छन्ति । तदेषा प्रत्यक्षविषये फलविप्रतिपत्तिः । अनुमाने तु विप्रतिपत्तिर्यथा लिङ्गं प्रमाणं ज्ञानं फलम् । ज्ञानं प्रमाणं हानोपादानं फलमिति । तां निराकरोति- [पृ०५२ पं०१४] कुत इति, वितर्कस्यायमर्थ:- प्रत्यक्षमनुमानं च ज्ञानं प्रमाणम् । तच्च साधकतमत्वात् करणरूपम् । फलं च परिच्छित्त्यादिकं तत्साध्यत्वात् कर्मभूतम्, अनयोश्चान्यत्वं सुप्रसिद्धमिति कुतः कस्मात्तदेव ज्ञानं फलं नार्थपरिच्छित्ति-हानादिकमित्याचार्य आह- अधिगमरूपत्वात् [पृ०५२ पं०१४] । अर्थपरिच्छित्तिस्वरूपत्वात् प्रत्यक्षानुमानलक्षणस्य ज्ञानस्य । अतस्तदेव ज्ञानमर्थपरिच्छित्तिरूपं प्रमाणफलम्, एतदेव भावयति तथाहीत्यादिना [पृ०५२ पं०१४] । परिच्छेदरूपमेवार्थप्रतीतिं जनयदेव सद् ज्ञानमुत्पद्यते । न चार्थपरिच्छित्तिरूपाज्ज्ञानात् फलं पृथक् किंचिदस्ति । अत एवाह- न चेत्यादि [पृ०५२ पं०१५] । अर्थपरिच्छेदं विनाऽन्यद्भिन्नं ज्ञानस्यार्थपरिच्छित्तिरूपस्य फलमित्येवं न, किंतु तदेव परिच्छित्तिरूपं ज्ञानं फलम्, कुत इत्याह- भिन्नाधिकरणत्वादिति [पृ०५२ पं०१६] । भिन्नमधिकरणमाश्रयो यस्य. फलस्य तत्तथा । तस्य भावस्तत्त्वम्, तस्मात् । अयमर्थः- ज्ञानाद् व्यतिरिक्तं यधुच्यते फलं हानोपादानादिकं तदा तत् फलं प्रमातुरेव स्यान्न ज्ञानस्य । तथाहि- ज्ञानेन प्रदर्शितेऽर्थे हानादिकं तद्विषये पुरुषस्यैवोपजायते । अतो हानादिकस्य भिन्नाश्रयत्वान्न फलत्वं मन्तव्यमित्यादि बहु वक्तव्यम्। अत एवाऽऽह- अत्रेत्यादि [पृ०५२ पं०१६] । अथ किमिहैतावता तात्पर्य स्थितमित्याह- सर्वथेत्यादि [पृ०५२ पं०१६] । अपि तु ते एव फले । एवं मन्यते-अर्थपरिच्छेदकत्वेन विज्ञाने उत्पन्ने स्वविषयनिश्चयजनकत्वे सति समाप्तः प्रमाणव्यापार इत्यर्थपरिच्छित्तिरेव फलं न हानादिकमिति । आहेत्यादि [पृ०५२ पं०१७] । तद्भावाभिमतयोरिति प्रमाणभावेनाभिमतयोरित्यर्थः । यदि प्रमाणाभावः स्यात्तदानीं भवतु, चेत् प्रमाणफलसद्भावः स्थितः किमपरेण कार्यमित्याहप्रमाणाभावे चेति । अत्रेति [पृ०५२ पं०१८] प्रेर्ये । सव्यापारेत्यादि [पृ०५३ पं०१] । व्यापारो नाम प्रमाणस्य नीलादिवस्तुग्राहकत्वम् । ततो व्यापारयुक्तस्य प्रमाणस्य यका ख्यातिः प्रतीतिरर्थसादृश्यं ज्ञानस्याऽर्थाकारता तस्याः प्रमाणत्वमिति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192