Book Title: Nyayapraveshakashastram
Author(s): Jambuvijay
Publisher: Motilal Banarasidas

View full book text
Previous | Next

Page 148
________________ पार्श्वदेवगणिविरचिता आहेत्यादि [पृ०५१ पं०१८] । तदिति मनोविज्ञानादि । अनेनेति प्रोच्यमानेन प्रत्यक्षलक्षणेन । कुतो न संगृहीतमिति चेत्, उच्यते, अक्षैर्व्यपदेशादक्षाश्रितस्यैव ग्रहणात् ततश्चाक्षाश्रितस्यैवेन्द्रियविज्ञानस्य प्रत्यक्षशब्दवाच्यता स्यात्, न मनोविज्ञान - स्वसंवेदनयोगिज्ञानानाम् । तेषामक्षानाश्रयत्वात् । तेषां चाग्रहणेऽव्यापि लक्षणं स्यात् । अत एवाहइति कथमिति [पृ०५१ पं०१९] । व्याप्नोतीत्येवं शीलं व्यापि । णिन् । तस्य भाव व्यापिता । व्यापकत्वमित्यर्थः । अव्याप्तिरपि लक्षणदोष एवोक्त इति प्रेर्यार्थः । १२० उच्यत इत्यादि [ पृ०५२ पं०१] । अर्थपरिच्छेदकत्वेन साक्षात्करोति यज्ज्ञानं तदर्थसाक्षात्कारि । तस्य ग्रहणात् । अथार्थासाक्षात्कारिग्रहणे मनोविज्ञानादेः किमायातमित्याहमनोविज्ञानादेरपि इति । न केवलमिन्द्रियविज्ञानस्येत्यपेरर्थः । तदव्यभिचारादर्थसाक्षात्कारित्वाव्यभिचारात् । तदिति [ पृ०५२ पं०२] मनोविज्ञानादि । नन्वेवमर्थसाक्षात्कारि विज्ञानं प्रत्यक्षमित्यायातम् । अक्षमक्षं प्रति वर्तत [ पृ०५० पं०१४] इति समासश्च सूत्रकृत्प्रदर्शित इन्द्रियजमेव ज्ञानं विषयीकरोति ततः कथमर्थसाक्षात्कारिविज्ञानग्रहणेऽपि मनोविज्ञानादेः संग्रहः स्यादित्याह - लौकिकं त्वित्यादि [पृ०५२ पं०२] । इन्द्रियाश्रितमेव ज्ञानं लोके रूढं न मनोविज्ञानादि । अतस्तदेवाश्रित्याव्ययीभावः प्रदर्शितः । तर्हि मनोविज्ञानादेः स्वरूपं प्रदर्श्यताम् । नैवम् । अन्यतोऽवसेयमत एवाह- कृतं प्रसङ्गेनेति [पृ०५२ पं०३]। अधुनाऽनुमानावसरः । तत्र यद्यपि द्विविधमनुमानं स्वार्थपरार्थभेदेन तथापि साधनाभिधानेन परार्थानुमानं प्रागुक्तम् । इदानीं स्वार्थानुमानमुच्यते । तत्र शब्दात्मकत्वात् परप्रत्तिपत्तिनिबन्धनं परार्थमुच्यते । स्वप्रतिपत्तिनिबन्धनं तु ज्ञानात्मकं स्वार्थमिति । ननु तर्हि यः शब्दोच्चारणं विनाऽर्थं न प्रतिपद्यते तस्य शब्दात्मकमप्यनुमानं स्वार्थं प्राप्नोत्यात्मप्रतीत्यर्थं शब्दस्योच्चारणात् । उच्यते । आत्मप्रतिपत्तये सर्वदैव यदुपयुज्यते तत् स्वार्थमुच्यते । शब्दात्मकं त्वात्मप्रतीतये न सर्वदोपयुज्यते । किंतु परार्थमपि तदुच्चार्यते । अतः परार्थं शब्दात्मकम् । स्वार्थं तु ज्ञानात्मकमिति । अनुमितिरनुमानमित्यनेनाग्न्याद्यवबोधाख्यं फलमनुमानशब्दवाच्यमुक्तं तत् किमित्याह- तच्च लिङ्गादर्थदर्शनमिति [पृ०५२ पं०८] । तत्र लिङ्गयते गम्यतेऽनेनार्थ इति लिङ्गम्, लीनमर्थं गमयतीति वा लिङ्गम्, पृषोदरादित्वान्निपात्यते लिङ्गशब्दः, तस्मात्, अर्थ्यत इत्यर्थो वह्न्यादि:, तस्मिन् दृष्टिर्दर्शनं १. प्रसंगेनेत्यादि J. P. ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192