Book Title: Nyayapraveshakashastram
Author(s): Jambuvijay
Publisher: Motilal Banarasidas

View full book text
Previous | Next

Page 149
________________ न्यायप्रवेशकवृत्तिपञ्जिका। १२१ ज्ञानमर्थदर्शनम् । किंलक्षणं पुनर्लिङ्गमुक्तमित्याह- लिङ्गं पुनस्त्रिरूपमिति [पृ०५२ पं०९] । रूपशब्दो लक्षणवाची । ततस्त्रिरूपं त्रिलक्षणमित्यर्थः । तदयं भावार्थ:- साध्याविनाभाविनः पक्षधर्मत्वादित्रिरूपयुक्तात् कार्य-स्वभावाख्यलिङ्गाद्यदर्थे सामान्ये सजातीयानुगते विजातीयव्यावृत्ते वक़्यादौ ज्ञानमग्निरत्रेत्यादिरूपमुत्पद्यते तज्ज्ञानमनुमानज्ञानम्। तत्रापि प्रथम लिङ्गज्ञानं भवति तदुत्तरं च लिङ्गाल्लिङ्गिनि ज्ञानं स्यादिति विज्ञेयम् । तत्र सामान्येन साध्याविनाभावित्वस्मरणज्ञानं यत्तल्लिङ्गज्ञानम्, यथा धूमं प्रत्यक्षेण गृहीत्वा सर्वत्रायं वह्निज इति स्मरणम् । विशिष्टदेशादिसंबन्धेन यदुदेति यथाऽत्रायं धूमो वह्निज इति वह्निरत्रास्तीति वह्निविशेषज्ञानं तल्लिङ्गिज्ञानम् । तथा स्वभावहेतावपि प्रथमं साध्यनान्तरीयकं साधनं स्मर्तव्यम् । यथा कृतकत्वं नामानित्यत्वस्वभावमिति, तदेतत् सामान्यस्मरणं लिङ्गज्ञानम्, सामान्येन स्मृतमर्थं पुनर्विशेषे यदा योजयति यथेदमपि कृतकत्वं शब्दे वर्तमानमनित्यस्वभावमेवेति तदा विशिष्टस्य शब्दगतकृतकत्वस्यानित्यत्वस्वभाव-स्मरणमनुमानज्ञानम्। नन्वनुमानलक्षणमेकेनैवोदाहरणेन चरितार्थं स्यात् किमित्युदाहरणद्वयं दत्तमित्याहउदाहरणेत्यादि [पृ०५२ पं०११] । वस्तुनः सत्ताया विधेरिति यावत् । साधनं सिद्धिर्निश्चयो भवति यकाभ्यां तौ वस्तुसाधनौ वस्तुगमकौ, कार्य-स्वभावावाख्या ययोः, तौ तथा । तौ च तौ हैतू च । ततो वस्तुसाधनौ च तौ तौ च, तयोर्द्वयम्, तस्य ख्यापनार्थं द्वावेव वस्तुसाधनौ हेतू अन्यस्त्वनुपालम्भाख्यो यो ग्रन्थान्तरेषूक्तः स प्रतिषेधहेतुरेवेति कथनार्थम्। ननु सोऽपीह किमिति नोक्तो यावता हेतुद्वयस्यैवेह चर्चा कृता । सत्यम् । एवं मन्यते । स्वभावहेतोरनुपलब्धेः पृथक्करणं कृतं ग्रन्थान्तरेष्वपि यत्तत् प्रतिपत्त्रभिप्रायवशात् । प्रतिपत्ता हि स्वभावहेतौ वस्तुप्रतिपत्त्यध्यवसायी । अनुपलब्धौ त्वभावप्रतिपत्त्यध्यवसायीति । परमार्थतस्तु प्रतिषेध्यस्याभावव्यवहारयोग्यता वस्तुभूतैव प्रदेशस्य साध्या । यतः केवलं भूतलं तज्ज्ञानं च घटाभावस्य स्वरूपं नापरोऽभावः कश्चिदित्यतः स्वभावहेतुरेवेयम् इति । अत इहानांशेन स्वभावहेतावन्तर्भावं कृत्वा हेतुद्वयस्य कार्य-स्वभावाख्यस्य चर्चनं कृतमिति । त्रिविधां विप्रतिपत्तिं निराकृत्याधुना फलविषयां विप्रतिपत्तिं निराकुर्वनाहउभयत्रेत्यादि [पृ०५२ पं०१२] । कथं पुनः प्रमाणस्य फले विप्रतिपत्तिरिति चेत्, उच्यते । प्रमाणं करणं प्रमितिक्रियां विना न भवति, यथा छेदनक्रियां विना न परशुः करणं स्यात्। १. न्यायबिन्द्वादिषु । दृश्यतां पृ०७० टि०३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192