Book Title: Nyayapraveshakashastram
Author(s): Jambuvijay
Publisher: Motilal Banarasidas

View full book text
Previous | Next

Page 145
________________ न्यायप्रवेशकवृत्तिपञ्जिका। ११७ अधुनाऽवयवव्याख्यामाह- तत्रेत्यादि [पृ०५० पं०१७] । तत्रैवं सति प्रतिगतमाश्रितमक्षं प्रत्यक्षम्, अथाक्षमक्षं प्रति प्रत्यक्षमिति अव्ययीभावः कस्मान्न प्रदर्श्यते येनाऽयं समासः, उच्यते, स नंपुसकलिङ्गं स्यादिति नपुंसकलिङ्गता स्यात् प्रत्यक्षशब्दस्य । ततश्च प्रत्यक्षा बुद्धिः प्रत्यक्षो घट इति न स्यात्, इदमेव स्यात् 'प्रत्यक्षं ज्ञानं प्रत्यक्षं कुण्डं वा' इति, अतः अत्यादयः क्रान्ताद्यर्थे द्वितीयया [ पा० वा० ७८०/१/४/७९॥] इति अत्यादिसमासे सर्वलिङ्गता भवत्यतोऽत्यादिसमासं तत्पुरुषाख्यं दर्शितवान् । अथ तत्परुषपक्षेऽप्यक्षशब्दस्य नपुंसकलिङ्गत्वात् परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः[पा०२/४/२६/८१२] इति परवल्लिङ्गतायां नपुंसकलिङ्गप्राप्तिरूपस्तदवस्थो दोषः स्यादिति चेत्, उच्यते, प्राप्ताऽऽपन्नाऽलंगतिसमासेषु परवल्लिङ्गताप्रतिषेधादभिधेयवल्लिङ्गतेति सर्वलिङ्गः प्रत्यक्षशब्दः सिद्धः । अथ कल्पनापोढमित्यत्रापोढकल्पनमिति बहुव्रीहौ स्यादित्याह- समासाक्षेपेत्यादि [पृ०५१ पं०२] । बहुव्रीहौ निष्ठान्तं पूर्व निपततीत्यादिकावित्यर्थः । अधुना तृतीयापञ्चमीतत्पुरुषं दर्शयति कल्पनयेत्यादिना । अत्र तृतीयापक्षे कर्मणि निष्ठा । पञ्चमीपक्षे कर्तरीति बोद्धव्यम्। "न सोऽस्ति प्रत्ययो लोके यः शब्दानुगामादृते । अनुविद्धमिव ज्ञानं सर्वं शब्देन गम्यते" ॥ इति । तत्रास्तीत्यनेन संवेदनसद्भावे प्रमाणमाह; संवेद्यगतं हि शब्दसंजल्परहितमर्थसंवेदनम्। तथा चोक्तमन्यैरपि"संहृत्य सर्वतश्चिन्तां स्तिमितेनान्तरात्मना। स्थितोऽपि चक्षुषा रूपमीक्षते साक्षजा मतिः ॥"[प्रमाणवा०२।१२४] इति । आलोचनज्ञानमित्यनेन बोधकत्वं प्रमाण्ये हेतुमाह; । प्रथममित्यनेनाप्यस्तित्वं निर्विकल्पकत्वं च युक्त्या साधयति । वाचकशब्दस्मरणसमनन्तरं हि सविकल्पकज्ञानमुत्पद्यते; प्रबुद्धश्च संस्कारः स्मृतिमुपजनयति; अर्थदर्शनं च संस्कारोबोधकमिष्यते । वाचकस्मरणाच्च पूर्वं यदर्थदर्शनम् , तदेव शब्दसञ्जल्परहितत्वानिर्विकल्पक शब्दसम्बन्धग्रहणाभावेन बालमूकयोरिव विज्ञानम्। शद्धवस्तुजमितीदं च शब्दसंजल्पव्युदासेनेन्द्रियजत्वसिद्ध्यार्थसामर्थ्येनोत्पन्नतां दर्शयति ।।...... एवं तावन्निर्विकल्पकस्यास्तित्वं प्रत्यक्षत्वं च सामान्यविशेषविषयत्वं च साधितम् । इदानीं सविकल्पकस्य यत् प्रत्यक्षत्वं प्रतिज्ञातम्, तत् साधयितुमाह-ततः परमिति । तत्र ततः परमित्येतेन निर्विकल्पकादुत्पन्नतां सविकल्पकस्य दर्शयति। (पुनरिति) पारम्पर्यणाप्यक्षजत्वमस्तीत्येतत् प्रदर्शयितुं बौद्धपरिकल्पितमानसप्रत्यक्षवत् वस्त्वित्यनेनार्थसामर्थ्योत्पन्नतां निर्विकल्पकवद् दर्शयति । धमैरित्यनेनार्थान्तरन्यासं निराकरोति । जात्यादिभिरित्यनेनापि शब्दाध्यासः। एतदुक्तं भवति- जात्यादिभिर्धर्मभूतैर्विशिष्टोऽर्थो ययावसीयते, न शब्दविशिष्टो नाप्यर्थान्तररूपेण। बुद्धयावसीयते इत्यनेन बोधकत्वं प्रामाण्ये हेतुमाह । सापि प्रत्यक्षत्वेन संमतेत्यनेनापि तद्भावभावित्वेनाक्षजत्वं दर्शयति ॥" इत भट्टोम्बेकविरचितायां मीमांसाश्लोकवार्तिकटीकायाम् १।१।४॥ २. "परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः [पा० २।४।२६। ८१२] एतयोः परपदस्येव लिङ्गं स्यात् । कुक्कुटमयूर्याविमे । मयूरीकुक्कुटाविमौ । अर्धपिप्पली । द्विगुप्राप्तापन्नालंपूर्वगतिसमासेषु प्रतिषेधो वाच्यः [पा०वा०] पञ्चसु कपालेषु संस्कृतः पञ्चकपालः पुरोडाश: । प्राप्तो जीविकां प्राप्तजीविकः । आपन्नजीविकः । अलं कुमार्यै अलंकुमारिः। अत एव ज्ञापकात् समासः। निष्कौशाम्बिः।"-पा० सिद्धान्तकौमुदी । "प्रत्यक्षमिति प्रतिगतमाश्रितमक्षम्। अत्यादयः क्रान्ताद्यर्थे द्वितीयया [पा०वा० २।२।१८] इति समासः । प्राप्तापन्नालंगतिपूर्वसमासेषु परवल्लिङ्गताप्रतिषेधात् अभिधेयवल्लिङ्गे सति सर्वलिङ्गः प्रत्यक्षशब्द: सिद्धः" इति धर्मोत्तरविरचितायां न्यायबिन्दुटीकायाम् १।३। ३. दृश्यतां पृ० ४४ पं०७ ॥ Jain Education International - For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192