Book Title: Nyayapraveshakashastram
Author(s): Jambuvijay
Publisher: Motilal Banarasidas
View full book text
________________
९४
पार्श्वदेवगणिविरचिता परि समन्ताद् अयनं गमनम् उत्तरोत्तरावस्थान्तरोत्पत्त्येति पर्यायो गुण उच्यते । असाधारणमित्यनन्यसदृशम् । धर्मस्य नित्यत्वादिकस्यात्मीयं लक्षणं रूपमात्मलक्षणम् [पृ०३९ पं०२] । कृतकत्वादिति स्वभावहेतुः, प्रयत्नानन्तरीयकत्वादिति च कार्यहेतुः । यद्यपि प्रयत्नानन्तरीयकत्वं स्वभावहेतुत्वेन कार्यहेतुत्वेन च प्रसिद्ध तथापीह कार्यहेतुत्वेन विज्ञेयम् । कथमेवमिति चेदुच्यते। प्रयत्नानन्तरीयकशब्देन हि प्रयत्नानन्तरं शब्दजन्म तज्ज्ञानं च प्रयत्नानन्तरीयकमुच्यते। तत्र जन्म प्रयत्नानन्तरं जायमानस्य शब्दस्य स्वभावः, ताल्वादिव्यापारजनितशब्दानन्तरं च ° यच्छब्दविषयं ज्ञानं तत् ज्ञेयस्य कार्यम् । तदिह विरुद्धहेत्वाभासलक्षणे प्रयत्नानन्तरं ज्ञानं गृह्यते । तेन कार्यहेतुरयम् । अथायं स्वभावहेतुत्वेनापि किमिति न व्याख्यायते ? । सत्यं व्याख्यायत एव । केवलं कृतकत्वादिति स्वभावहेतुरभिहित एव सूत्रे । तेन कार्यहेतुतया
व्याख्यायते, ग्रन्थान्तरेऽपीत्थमेव व्याख्यानाच्च । अत: प्रयत्नानतरीयकज्ञानजनकत्वादिति 10 हेत्वर्थो द्रष्टव्यः ।
10 तेनैवेति [पृ०३९ पं०५] अनित्यत्वेनैवाऽस्याविनाभावित्वात् । तद्विनाऽयं न भवतीत्यर्थः । तदिह विपर्ययेऽनित्ये सम्यग्घेतुरेव विरुद्धोऽविषये तु नित्ये प्रयोगाद्धेत्वाभास उच्यत इति विज्ञेयम् । तदुक्तम्
कृतकत्वं त्वनित्यत्वे सपक्षे वृत्तिमद् घटे । विनिवृत्तं विपक्षाख्ये सम्यग्घेतुरुदाहृतः॥[ ] इति
आहेत्यादि [पृ०३९ पं०५] । नित्यशब्दवादिनो मीमांसकस्य चाक्षुषत्ववत् कृतकत्वं शब्दधर्मतया न सिद्धम्, किन्तु ताल्वादिभि: शब्दाभिव्यक्तिरेव तस्य सिद्धेत्यपक्षधर्मताऽस्त्येव। अपक्षधर्मश्च हेतुरसिद्ध एव भवतीति प्रेर्यार्थः । अवश्यं [पृ०३९पं०६] नियमादेव पक्षधर्मस्यैव सतो हेतोर्विरुद्धता । तदभावेऽसिद्धत्वमिति न वाच्यम् । कुत इत्याह- अन्यथापीति
[पृ०३९ पं०७] । अपक्षधर्मोऽपि सन् विरुद्ध उच्यते आचार्येण । प्रवृत्तिरपि कुत इत्याह10 अधिकृतेति [पृ०३९ पं०७] । अधिकृतश्चासौ प्रयोगश्च स चासौ ज्ञापकं च, तस्मात् । ।
अथापक्षधर्मो हेतुरसिद्ध एवेत्यपक्षधर्मत्वान्नायमसिद्धाद् भिद्यत इत्याह- न चायमिति [पृ०३९ पं०७] । अपि त्वसिद्धादयं पृथक् क्रियते । कुत इत्याह विपर्ययेति [पृ०३९ पं०८] । असिद्धेरित्यतोऽग्रेऽसिद्धस्येति शेषः । अयं च विपर्ययसाधक इत्यसिद्धात् पृथक्
15
15
25
१ व्याख्यातो ग्रन्थान्तरे J. Pम.। दृश्यतां पृ०७० टि०३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192