Book Title: Nyayapraveshakashastram
Author(s): Jambuvijay
Publisher: Motilal Banarasidas

View full book text
Previous | Next

Page 131
________________ न्यायप्रवेशकवृत्तिपञ्जिका। १०३ तथेह प्रकृतोपयोगिपदार्थस्वरूपमेव यद्यपि निरूपितं तथापि द्रव्यादिसूत्रे विशेषसमवाययोरपि निर्दिष्टत्वात् तत्स्वरूपमपि प्रस्तावादुच्यते, यथा- नित्यद्रव्यवृत्तयोऽन्त्या विशेषाः । तथाहि- विनाशारम्भरहितेषु नित्यद्रव्येष्वण्वाकाशकालदिगात्ममनःसु प्रतिद्रव्यमेकशो वर्तमाना अत्यन्तव्यावृत्तबुद्धिहेतवो विशेषाः । अयमर्थः- यथा अस्मदादीनामश्वादिभ्यो गवादिषु जातिगुणक्रियादिनिमित्ता प्रत्ययव्यावृत्तिदृष्टा गौः शुक्ल: शीघ्रगतिरित्यादिस्तथाऽस्मद्विशिष्टानां योगिनां नित्येषु तुल्याकृतिगुणक्रियेषु परमाणुषु मुक्तात्ममनस्सु चान्यनिमित्तासंभवाद् येभ्यो निमित्तेभ्यः प्रत्याधारं 'विलक्षणोऽयं विलक्षणोऽयम्' इति प्रत्ययव्यावृत्तिर्देशकालविप्रकर्षदृष्टे च परमाणौ स एवायमिति प्रत्यभिज्ञानं च भवति ते विशेषाः । अथेतरेतराभावात् पृथक्त्वाद्वा प्रत्ययव्यावृत्ति: प्रत्यभिज्ञानं चेति न ततो विशेष इति चेत् । न । अथ इतरेतराभावस्य निषिध्यमानज्ञानजनकत्वमेव । व्यावृत्तज्ञानं च निषिध्यमानज्ञानाद् विलक्षणमतो विशेषरूपनिमित्तान्तरकार्यम् । पृथक्त्ववशाच्च पृथगिति व्यवहारः पार्थक्यमात्ररूपो न त्वेतस्मादयं विसदृश इत्येवंरूप इति । अयुतसिद्धानामाधार्याधारभूतानामिहेतिप्रत्ययहेतुर्यः संबन्धः स समवायः, यथेह तन्तुषु पट इति । इत्यलं प्रपञ्चेनेति । तत्रेति [पृ०४१ पं०९] एवं सति अर्थान्तरं विभिन्ना । युक्त्या प्रमाणेन । द्रव्यादन्य इत्यर्थ [पृ०४१ पं०१२] इति। भावो द्रव्यरूपो न भवतीति यावत् । एकं च तद् द्रव्यं चेति। अत्र नवस्वपि द्रव्येषु द्रव्यत्वाभेदादेकद्रव्यमिति व्यपदेश: प्रवर्तते । जात्यपेक्षया चैकवचनम् । तत एकद्रव्यमित्येकैकं द्रव्यमित्यर्थः । अस्यास्त्याश्रयभूतमिति [पृ०४१ पं०१३] । अस्येति भावस्याश्रयिण आधेयरूपस्याश्रयभूतमाधारभूतमित्यर्थः । अथ समानाधिकरणो बहुव्रीहिरेव क्रियतां किं कर्मधारयान्मत्वर्थीयेन कार्यमित्याह - समानेत्यादि [पृ०४१ पं०१४] । कदाचित् सर्वधनादिगणस्य इन्नर्थं कर्मधारय आद्रियते । कोऽर्थः ? सर्वं च तद्धनं च सर्वधनम्, तद्विद्यते यस्यासौ सर्वधनी सर्वकेशीत्यादि मत्वर्थीयान्तप्रयोगनिष्पत्त्यर्थः कर्मधारय आद्रियत इति । अन्यथा सर्वं धनमस्येति बहुव्रीहावस्त्यर्थस्योक्तत्वान्न मत्वर्थीयप्राप्ति: स्यात्। एवमिहापि । व्यक्तिभेदेन हेतोरर्थमाह- एकैकस्मिन्निति [पृ०४१ पं०१५] । अथ किं भावस्य द्रव्यलक्षणं न घटते येन तद्विलक्षणः साध्यते इत्याह-वैशेषिकस्य हीति । तत्राद्रव्यमाकाशेत्यादि [पृ०४१ पं०१६] । न विद्यते जनकं जन्यं च द्रव्यमस्येत्यद्रव्यम्। तत्र परमाणूनां जनकं नास्ति । आकाशादीनां च न जन्यं नापि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192