Book Title: Nyayapraveshakashastram
Author(s): Jambuvijay
Publisher: Motilal Banarasidas

View full book text
Previous | Next

Page 133
________________ न्यायप्रवेशक वृत्तिपञ्जिका । १०५ एवमिति [पृ०४२ पं०१६ ] यथैतद्वक्तुं शक्यत इत्यर्थः । तदेवाह - न गुण इत्यादि । अत्रापीति [पृ०४२ पं०१६ ] | एवं भावस्य गुणनिषेधप्रयोगेऽपीदमपि वक्तुं शक्यते । तदेवाह भाव इत्यादि । अथेह विपक्षवृत्तित्वं यत् सामान्यं विरुद्धलक्षणं तत् कथमुपपद्यते येनायं विरुद्धः स्यादित्याह— सामान्येत्यादि, भावस्य वैशेषिकेण प्रतिष्ठितस्य द्रव्यादीनां पृथग्भूतस्य पदार्थस्य विपक्षो द्रव्यत्वादिकं सामान्यविशेषस्तस्य भावस्तत्त्वं तस्मात् । किमुक्तं भवति ? । भावविपक्षो ह्यभावः सामान्यविशेषरूपस्तत्रैव वृत्तिदर्शनादुपपद्यत एव विरुद्धलक्षणता । आहायमित्यादि [पृ०४२ पं० २०] । द्रव्यादीन्येव विविक्तपरमाणुक्षणक्षयिलक्षणानि स्वलक्षणानि भावः, न तु तदतिरिक्तः कश्चन भावोऽस्तीत्यर्थः । तस्याद्रव्यादिभिन्नस्य भावस्याभावस्तदभावस्तस्मात् [ पृ०४२ पं०२२] । कथं पुनर्द्रव्यादिव्यतिरिक्तो भावाख्यः पदार्थो नास्तीति चेत्, उच्यते- तस्य विचारभारगौरवाक्षमत्वात् । तथाहि - भावः स्वयं सन् असन् वा । यद्यसन् कथं तद्योगाद्वन्ध्यासुतादेरिवापरस्य सत्त्वम् । अथ सन् तर्हि स्वतोऽन्यसत्तातो वेति द्वयी कल्पना । तत्र यदि स्वतः सत्त्वं भावस्य तदा पदार्थानामेव स्वंत एव सत्त्वं स्यादिति व्यर्थं तत्परिकल्पनम् । अथान्यसत्तातस्तर्हि तस्याप्यन्यतस्तस्याप्यन्यत इत्यनवस्था । किंच, यदि स्वत एव सन् भावोऽभ्युपगम्यते तदा प्रमाणं वक्तव्यम् । तत्र न तावत् प्रत्यक्षग्राह्योऽसाविति वाच्यम् । यतो न व्यक्तिदर्शनवेलायां स्वरूपेण बहिर्ग्राह्याकारतयाऽसौ प्रतीतिमवतरन्नुद्भाति । न हि घटपटवस्तुद्वयप्रतिभाससमये तदैव घटादिव्यवस्थितमूर्तिर्भिन्नोऽभिन्नो वा भाव आभाति । तदाकारस्यापरस्य ग्राह्यतया बहिस्तत्राप्रतिभासनात् । बहिर्ग्राह्यावभासश्च बहिरर्थव्यवस्थाकारी नान्तरावभासः । यदि त्वान्तरोऽपि प्रतिभासोऽर्थव्यवस्थाकारी स्यात्तथा सति हृदि परिवर्तमानवपुषः सुखादेरपि प्रतिभासाद् बहिस्तद्व्यवस्था स्यात् । न चेदमनुभूयते । अथ सुखादिराकारो बाह्यरूपतया न प्रतिभातीति न बहिरसौ, जातिरपि तर्हि न बहीरूपतया प्रतिभातीति न बहीरूपा - ऽभ्युपगन्तव्या । एवं च बुद्धिरेव केवलं घटपटादिषु प्रतिभासमानेषु सत् सदिति तुल्यतनुराभाति न तु व्यक्तिव्यतिरिक्तं भावमुद्योतयति, यदि तर्हि न बाह्या जातिः अस्ति, बुद्धिरपि कथमेकरूपा प्रतिभाति, नहि बहिर्निमित्तमन्तरेण एकाकारा सोत्पत्तिमती युक्ता । ननु केनोच्यते बहिर्निमित्तनिरपेक्षा जातिमतिरिति । किंतु बहिर्जातिर्न निमित्तम्। बाह्याश्च व्यक्तयः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192