Book Title: Nyayapraveshakashastram
Author(s): Jambuvijay
Publisher: Motilal Banarasidas

View full book text
Previous | Next

Page 127
________________ न्यायप्रवेशकवृत्तिपञ्जिका। परत्वमपरत्वं च परापराभिधान-प्रत्ययनिमित्तम्। तद् द्विविधम्-दिक्कृतं कालकृतं च । तत्रैकस्यामेव दिशि व्यवस्थितयोर्वर्तमानकालवर्तिनोरेव पिण्डयो: संयुक्तसंयोगबह्वल्पत्वे सत्येकस्य द्रष्टुः सन्निकृष्टमवधिं कृत्वा एतस्माद्विप्रकृष्टोऽयमिति परत्वाधारे परदिक्प्रदेशयोगाद्यः परोऽयमिति प्रत्ययो जायते स दिकृतपरत्वनिबन्धनः । अत्र च यस्य द्रष्ट्रपेक्षया बहवः संयुक्तसंयोगा: स परत्वस्याधारो विप्रकृष्टावधिक उच्यते । यस्य चाल्पा: संयुक्तसंयोगाः सोऽपरत्वाधारः सन्निकृष्टावधिक इति । यश्च विप्रकृष्टमवधिं कृत्वेतरस्मिन्नपरदिक्प्रदेशयोगादपरोऽयमिति प्रत्ययो जायते स दिकृतापरत्वनिबन्धनः । कालकृतं च यथा - वर्तमानकालयोरनियतदिग्देशसंयुक्तयोर्युव-स्थविरयो रूढश्मश्रुकार्कश्यवलीपलितादिसान्निध्ये सत्येकस्य द्रष्टुर्युवानमवधिं कृत्वा एतस्माद्विप्रकृष्टोऽयमिति परेण कालप्रदेशेन योगाद्यः परोऽयमिति स्थविरे प्रत्ययो जायते स कालकृतपरत्वनिबन्धनः । यश्च स्थविरमवधिं कृत्वा यून्यपरकालप्रदेशयोगादपरोऽयमिति प्रत्ययो जायते स कालकृतापरत्वहेतुकः । बुद्धिरुपलब्धिः प्रत्ययो ज्ञानमिति पर्यायाः । सा चानेकप्रकारा अर्थानन्त्यात् । तस्या अनेकविधत्वेऽपि समासतो द्वैविध्यमविद्या-विद्याभेदात् । । तत्राविद्या संशय-विपर्यया-ऽनध्यवसाय-स्वप्नभेदाच्चतुर्विधा । तत्र स्थाणुर्वा पुरुषो वेति मन्दमन्दप्रकाशे देशे ज्ञानं संशयः । गव्येवाश्व इति ज्ञानं विपर्ययः । यत्र वस्तुमात्रं पश्यतोऽपि तदुपदेशाभावाद् विशेषसंज्ञाप्रतिपत्तिर्न भवति यथेदममुकमिति सोऽनध्यवसायः । उपरतेन्द्रियग्रामस्य प्रतिनियतात्मप्रदेशस्थितमनस्कस्येन्द्रियद्वारेणैव यदनुभवनं मानसं तत् स्वप्नज्ञानम् । ... विद्याऽपि चतुर्विधा प्रत्यक्ष-लैङ्गिक-स्मृत्यार्षभेदात् । तत्र यदवितथमव्यपदेश्यं व्यवसायात्मकं ज्ञानं तत् प्रत्यक्षम् । तत्राऽवितथमित्यनेन विपर्ययज्ञानस्य व्यवच्छेदः । व्यवसायात्मकमित्यनेन च संशयव्यवच्छेदः । अव्यपदेश्यमिति, व्यपदेशः शब्दः, तमर्हति व्यपदेश्यम्, तत्प्रतिषेधेनाव्यपदेश्यं शब्दाजन्यं ज्ञानम् । अनेन चेन्द्रियसहकारिणा शब्देन यज्जन्यते तद्व्यवच्छेदः । तथाहि-अकृतसङ्केतो रूपं पश्यन्नपिचक्षुषा रूपमिदमिति बुध्यस्वेति यावन्नोच्चार्यते केनापि तावत्तस्य रूपविषयं ज्ञानं न भवति, शब्दोच्चारणानन्तरं च भवति । इत्युभयजज्ञानं प्रत्यक्षं नोच्यते, किन्तु शाब्दमेवेत्याकूतम् । प्रत्यक्षस्य च विषयो द्रव्यं त्रिविधं पृथिव्यप्तेजोरूपमिति। महत्त्वादनेकद्रव्यवत्त्वाद्र्पविशेषाच्च त्रिविधस्यैव प्रत्यक्षता ।द्रव्यस्थानिचगुण-कर्म-सामान्यान्यपि प्रत्यक्षविषयः । तथा प्रमाण-फलादिव्यवस्था । यथा चक्षुरादिकारकसामग्री प्रमाणम् । द्रव्यादयः प्रमेयाः । प्रमाताऽऽत्मा । प्रमितिर्द्रव्यादिविषयं ज्ञानं फलमिति । १. ° त्वनिबन्धन: c. ॥ २. विषयत्वेऽपि J. ॥ ३. 'समयो रूपं J. P. || Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192