Book Title: Nyayapraveshakashastram
Author(s): Jambuvijay
Publisher: Motilal Banarasidas

View full book text
Previous | Next

Page 119
________________ न्यायप्रवेशकवृत्तिपञ्जिका। नान्यथेति [पृ०३६ पं०५] न तृतीयप्रकारान्तरेण। विरोधादिति, नित्यानित्ययोः परस्परपरिहारलक्षणविरोधेन स्थितत्वान्न नित्यानित्यं वस्त्वस्ति तृतीयम् । [अ] विरोधाभ्युपगमे चाभ्युपगम्यमाने अतिप्रसङ्गः । विरुद्धयोर्नीलपीतयोरपि वस्तुनोरेकतयैवावस्थानप्राप्तेः । न चैतदस्ति । तस्मान्न तृतीयं वस्त्वस्ति । किंभूतस्येत्यादि [पृ०३६ पं०६] । श्रावणत्वं श्रवणेन्द्रियग्राह्यत्वं किंभूतस्य सतः 5 संभवतीति शेषः। तद्बलेनेति [पृ०३६ पं०८] नित्यानित्योपलम्भसामर्थ्येन । तत्रापीति 5 शब्देऽपि । निश्चयो नित्यत्वानित्यत्वविषयः। नान्यथेति, नित्येऽनित्ये वा श्रावणत्वस्योपलम्भाभावे शब्देऽपि नित्यत्वादिविषयो निश्चयो न युज्यत इत्यर्थः । कुत इत्याह- विपर्ययेति [पृ०३६ पं०९] । तथाहि- शब्दस्य यत् साध्यमुपन्यस्तं नित्यत्वमनित्यत्वं वा तत्र नित्यत्वे उक्तेऽनित्यत्वस्यापि कल्पयितुं शक्यत्वादित्येवंरूपा यका विपर्ययस्य कल्पना संकल्पस्तस्या अपि दुर्निवारत्वात् न केवलमुपन्यस्तप्रतिनियतसाध्यसद्भावो युज्यत इत्यर्थः । आक्षेपेत्यादि 10 [पृ०३६ पं०१०] । नायं संशयहेतुरित्याधुक्तौ [पृ०३५ पं०१०] । एवं शेषेष्वपीति । 10 शेषेषूत्तरेष्वप्यनैकान्तिकेष्वाक्षेप-परिहारकल्पनं भावनीयं द्रष्टव्यमित्यर्थः । सपक्षकेत्यादि [पृ०३६ पं०११] सूत्रम् । तत्र [पृ०३६ पं०१५] इत्येवं सति । अस्य साध्यस्येति [पृ०३६ पं०१६] अप्रयत्नानन्तरीयकत्वाख्यस्य । तत्रेति विद्युदाकाशादिरूपे सपक्षे । विद्युदादिर्यस्य वनकुसुमादेः स तथा, तस्मिन् । आकाश आदिर्यस्य दिग्-देशर कालादे: स तथा, तस्मिन् । तस्मादेतदपीति [पृ०३७ पं०२] । न केवलं प्रमेयत्व- । श्रावणत्वे इत्यप्यर्थः । विद्युद्-घटयो: साधर्म्यम्, तेन । विद्युद्-घटयोस्तुल्या वृत्तिरस्यानित्यत्वस्य तत्तथा, तस्य भावस्तत्ता, तया । स्वधिया भावनीयं [पृ०३७ पं०७] व्याख्यानमिति शेषः । इहानित्यत्वस्योपलक्षणत्वात् प्रयत्नानन्तरीयकत्वे साध्ये कृतकत्वमपि विपक्षैकदेशवृत्तिसपक्षव्यापिरूपोऽनैकान्तिको ज्ञेयः । नवरमेतयोः कृतकत्वा-ऽनित्यत्वयोः कृतकत्वा-ऽनित्यत्वमात्रापेक्षयैव प्रयोगे क्रियमाणेऽनैकान्तिकता । यदा तु प्रयत्नानन्तरीयकः शब्दः प्रयत्नानन्तरीयकपदार्थस्वभावकृतकत्वात् प्रयत्नानन्तरीयकपदार्थस्वभावानित्यत्वाद्वेति विशेषितं कृतकत्वमनित्यत्वं । वा हेतुतयोच्यते तदा नायं दोष इति बोद्धव्यम् । १ प्रसंग: अवस्थानप्राप्तेः । न चैतदस्ति । तस्माच्च न तृतीयं वस्त्वस्ति विरुद्धयोर्नीलपीतादिकयोरपि वस्तुनोरेतकतयैव । किंभूतस्येत्यादि J. ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192