________________
न्यायप्रवेशकवृत्तिपञ्जिका। नान्यथेति [पृ०३६ पं०५] न तृतीयप्रकारान्तरेण। विरोधादिति, नित्यानित्ययोः परस्परपरिहारलक्षणविरोधेन स्थितत्वान्न नित्यानित्यं वस्त्वस्ति तृतीयम् । [अ] विरोधाभ्युपगमे चाभ्युपगम्यमाने अतिप्रसङ्गः । विरुद्धयोर्नीलपीतयोरपि वस्तुनोरेकतयैवावस्थानप्राप्तेः । न चैतदस्ति । तस्मान्न तृतीयं वस्त्वस्ति ।
किंभूतस्येत्यादि [पृ०३६ पं०६] । श्रावणत्वं श्रवणेन्द्रियग्राह्यत्वं किंभूतस्य सतः 5 संभवतीति शेषः। तद्बलेनेति [पृ०३६ पं०८] नित्यानित्योपलम्भसामर्थ्येन । तत्रापीति 5
शब्देऽपि । निश्चयो नित्यत्वानित्यत्वविषयः। नान्यथेति, नित्येऽनित्ये वा श्रावणत्वस्योपलम्भाभावे शब्देऽपि नित्यत्वादिविषयो निश्चयो न युज्यत इत्यर्थः । कुत इत्याह- विपर्ययेति [पृ०३६ पं०९] । तथाहि- शब्दस्य यत् साध्यमुपन्यस्तं नित्यत्वमनित्यत्वं वा तत्र नित्यत्वे उक्तेऽनित्यत्वस्यापि कल्पयितुं शक्यत्वादित्येवंरूपा यका विपर्ययस्य कल्पना संकल्पस्तस्या
अपि दुर्निवारत्वात् न केवलमुपन्यस्तप्रतिनियतसाध्यसद्भावो युज्यत इत्यर्थः । आक्षेपेत्यादि 10 [पृ०३६ पं०१०] । नायं संशयहेतुरित्याधुक्तौ [पृ०३५ पं०१०] । एवं शेषेष्वपीति । 10 शेषेषूत्तरेष्वप्यनैकान्तिकेष्वाक्षेप-परिहारकल्पनं भावनीयं द्रष्टव्यमित्यर्थः ।
सपक्षकेत्यादि [पृ०३६ पं०११] सूत्रम् । तत्र [पृ०३६ पं०१५] इत्येवं सति । अस्य साध्यस्येति [पृ०३६ पं०१६] अप्रयत्नानन्तरीयकत्वाख्यस्य । तत्रेति विद्युदाकाशादिरूपे सपक्षे । विद्युदादिर्यस्य वनकुसुमादेः स तथा, तस्मिन् । आकाश आदिर्यस्य दिग्-देशर कालादे: स तथा, तस्मिन् । तस्मादेतदपीति [पृ०३७ पं०२] । न केवलं प्रमेयत्व- ।
श्रावणत्वे इत्यप्यर्थः । विद्युद्-घटयो: साधर्म्यम्, तेन । विद्युद्-घटयोस्तुल्या वृत्तिरस्यानित्यत्वस्य तत्तथा, तस्य भावस्तत्ता, तया ।
स्वधिया भावनीयं [पृ०३७ पं०७] व्याख्यानमिति शेषः । इहानित्यत्वस्योपलक्षणत्वात् प्रयत्नानन्तरीयकत्वे साध्ये कृतकत्वमपि विपक्षैकदेशवृत्तिसपक्षव्यापिरूपोऽनैकान्तिको ज्ञेयः । नवरमेतयोः कृतकत्वा-ऽनित्यत्वयोः कृतकत्वा-ऽनित्यत्वमात्रापेक्षयैव प्रयोगे क्रियमाणेऽनैकान्तिकता । यदा तु प्रयत्नानन्तरीयकः शब्दः प्रयत्नानन्तरीयकपदार्थस्वभावकृतकत्वात् प्रयत्नानन्तरीयकपदार्थस्वभावानित्यत्वाद्वेति विशेषितं कृतकत्वमनित्यत्वं । वा हेतुतयोच्यते तदा नायं दोष इति बोद्धव्यम् ।
१ प्रसंग: अवस्थानप्राप्तेः । न चैतदस्ति । तस्माच्च न तृतीयं वस्त्वस्ति विरुद्धयोर्नीलपीतादिकयोरपि वस्तुनोरेतकतयैव । किंभूतस्येत्यादि J. ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org