________________
5
___10
पार्श्वदेवगणिविरचिता अत्राहेत्यादि [पृ०३५ पं०१०] । तद्भावे हेतुसद्भावे भावित्वं संशयस्य तद्भावभावित्वम् । तस्याऽनुपपत्तिः, तस्याः कारणाद् नायं संशयहेतुरिति योगः । अनुपपत्तिरपि कुतः? ऐतदित्यादि [पृ०३५ पं०११] । उक्तं चेत्यादि [पृ०३५ पं०१२] । संशीतेः कारणं संशीतिकारणं नहि वर्तन्ते । अथ हेतोरुपन्यासात् पूर्वं सामान्यः संशयः । साध्यमसाधयता च हेतुना स एव निबिडः स्यादिति कथं न संशीतेः कारणमित्याहतद्भावस्याविशेषत [पृ०३५ पं०१३] इति, तद्भावस्येति संशयभावस्येत्यर्थः ।।
नैतदेवमित्यादि [पृ०३५ पं०१५], किन्तु हेतावुपन्यस्ते यः संशयः स एव विवक्ष्यते। अथ मूलसंशयस्य विवक्षाऽभावे प्रयोगोऽपि तर्हि कथमित्याह तमन्तरेणापीति [पृ०३५पं०१५] । तमिति मूलसंदेहम् । यदि संशयाभावेऽपि क्रियते तर्हि प्रयोगेणापि किं कार्यमित्याहक्रियते चेति [पृ०३५ पं०१६] । प्रभृतिग्रहणादव्युत्पन्नमति-संशयितमतिकयोर्ग्रहणम् । न केवलं संशये सत्यात्मावबोधार्थं प्रयोगो हे तोः विधीयते इत्यप्यर्थः । यदि विपर्यस्तमत्याद्यवबोधार्थः क्रियते प्रयोगस्तर्हि चरितार्थत्वादस्यानैकान्तिकत्वम् । कथमित्याह ' - तत्रापि चेति [पृ०३५ पं०१६] । प्रयोगेऽपीत्यर्थः ।
___ अथेदं कथं संशयहेतुर्येनानैकान्तिकतेत्याह-तत्रेदमित्यादि [पृ०३५ पं०२१] । स्वधर्मिणं शब्दाख्यम्। ननु कथमिदमुच्यते सपक्षविपक्षाभ्यां व्यावृत्तत्वाच्छ्रावणत्वं संशयहेतुरिति । यतः सामान्यविशेषसंज्ञितं नित्यं यच्छब्दत्वं तत् सपक्षस्तत्रेदं वर्तते गन्धत्वादिकं च विपक्षस्तस्माच्च व्यावृत्तमतः सपक्षवृत्तेर्विपक्षानिवृत्तेश्च सम्यग्घेतुरेवासाविति । अत्रोच्यते ।
इह मीमांसकेन प्रयोगोऽयं विधीयते । तद्भेदाश्च बहवः, तत्र केचन शब्दत्वसामान्यमिच्छन्ति 15 केचन नेति। तत्र ये नेच्छन्ति ते ह्येवमाहुः- न शब्दं विहायापरं सामान्यविशेषरूपं नाम 15
शब्दत्वं सामान्यमस्ति । एकशब्दग्रहणे शब्दान्तरानुसंधानाभावात् । यत्र हि सामान्यमस्ति तत्रैकग्रहणेऽपरस्यानुसंधानं दृष्टम्, यथा शाबलेयग्रहणे बाहुलेयस्य । शब्दे चैकस्मिन् गृह्यमाणे न शब्दान्तरानुसंधानम् । किन्तु शार्गोऽयं शब्दो वैणवोऽयमित्यादि विभिन्नो विभिन्नो व्यावृत्त एव प्रत्ययो जायते । तन्न शब्दे शब्दत्वसंभवः। शब्दत्वमिति भावप्रत्ययेनापि च शब्दस्वरूपमात्रस्यैवाभिधानम् । अतः शब्दाख्यं धर्मिणं विहायान्यत्रास्यावर्तनात् पक्षधर्मतैवाऽस्य केवलम्, न शेषं रूपद्वयम् । अतस्तन्मतेन संशयहेतुरेवायम् । ये तु शब्दत्वसामान्यमिच्छन्ति तन्मतेन तु सम्यग्घेतुरेवायम्, रूपत्रयोपपत्तेः, तथा च व्यस्तयोः सम्यग्घेतुत्वा [ पृ. ३८ पं० ५] दिति वक्ष्यति । अनेन हि श्रावणत्वाख्यस्यापि सम्यग्घेतुत्वमावेदयिष्यतीति स्थितम् ।
१ एतदित्याह J. || २ संदेहे J. P. ॥ ३ हेतुप्रयोगो हेतोः J. ॥ ४ अयं प्रयोगो c . |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org