________________
८९
न्यायप्रवेशकवृत्तिपञ्जिका। आचार्य आहेति [पृ०३३ पं०६] उत्तरदाता सूरि—त इत्यर्थः । उभयासिद्ध इति, हेताविति शेषः। तथाहि- प्रतिज्ञार्थैकदेशस्य तथा पक्षाख्यधर्मिणोऽव्यापकस्य च हेतुत्वं न वादिनः सिद्धं नापि प्रतिवादिन इत्युपपद्यते उभयासिद्धेऽनयोरन्तर्भाव इति । शेषद्वयस्येति [पृ०३३ पं०८] । द्वाववयवौ यस्य द्वितयसमुदायस्य तद् द्वयम् । शेषं च तद् द्वयं च, तस्य। अत्रैवेति भेदद्वये।
असिद्धभेदौ द्वावेव [पृ०३३ पं०१०] वर्तेते । कौ द्वावित्याह- द्वयोरन्यतरस्य 5 वेति । द्वयोरसिद्ध उभयासिद्ध इत्यर्थः । अन्यतरस्य वाऽसिद्ध इत्येवंरूपौ । अन्ये त्वसिद्धभेदावुभयासिद्धान्यतरासिद्धाख्यौ द्वावेव वर्तेते, नेतरः, कुतः? द्वयोरन्यतरस्य वेति तत्र द्वयोः संदिग्धासिद्धाश्रयासिद्धयोरन्यतरस्यैकस्य कस्यचिदुभयासिद्धस्यान्यतरासिद्धस्य वा मध्येऽन्तर्भावादित्यध्याहृत्य व्याचक्षते ।
नेत्यादि [पृ०३३ पं०११] । धर्मिणोऽसिद्धिश्चाश्रयासिद्धे, हेतोः संदेहश्च संदिग्धासिद्धे, ° धर्म्यसिद्धिहेतुसंदेहौ, तावेवोपाधी विशेषणे, तयोर मुखम्, तेन । भेदविशेषावबोधार्थम- 10 सिद्धद्वयस्योपादानम्। अथ भेदविशेषसिद्ध्याऽपि किं प्रयोजनमिति चेदाह- विनेयेति [पृ०३३पं०११] । विनेयव्युत्पत्तिः फलं यस्य, तस्य भावस्तत्त्वम्, तस्मात् । ननु यद्यनयोरनेनांशेन पृथगुपन्यासस्तर्हि प्रतिज्ञार्थैकदेशाव्यापकासिद्धयोरपि पृथगुपन्यासोऽस्तु, तत्रापि किंचिद्भेदस्य विद्यमानत्वात् । सत्यमेतत्, एतावद्भिरेव भेदविशेषस्य सिद्धत्वादेतयोरन्तर्भाव एव विवक्षित इति संभाव्यते ।
अनैकान्तिक इत्यत्र एकश्चासावन्तश्चैकान्तो निश्चय इत्यर्थः, तत्र भवः स प्रयोजन- 15 मस्येति वा ऐकान्तिक: [पृ०३४ पं०२२] । तन्निषेधेऽनैकान्तिकः, सपक्ष-विपक्षगामित्वात् साध्येतरयोः संशयहेतुरनैकान्तिक उच्यते । प्रत्युदाहरणमेवेति [पृ०३५ पं०२] । उदाहरणमुदाहरणमाश्रित्येत्यर्थः । द्वयोरित्यादिना साधारणशब्दो लोकेऽप्युभयपक्षयोस्तुल्यवृत्तितया प्रवर्तत इत्याचष्टे । एवं हेतुरपि य ईदृशो द्वयोः साध्ययोः सामान्यः स साधारण उच्यते । प्रमेयत्वं नाम प्रमाणेन प्रत्यक्षादिरूपेण परिच्छेद्यत्वमुच्यते । इदं चेति प्रमेयत्वम् [पृ०३५ पं०५] । सपक्षश्चेतरश्च तौ च तावाकाश-घटादी च, तयोर्भावस्तेन । तत्र 20 नित्यत्वे साध्ये नित्यमाकाशादि सपक्षोऽस्य विपक्षस्त्वनित्यो घटादिः, तदिदं सपक्षविपक्षव्यापित्वादनैकान्तिकम् । ततश्चात्र नित्यः शब्दः प्रमेयत्वादाकाशवदिति प्रयोगे उक्ते संदेह उत्पद्यते यदि पुनः प्रमेयत्वाद् घटवदनित्यः शब्द इति । उपप्रदर्शनं [पृ०३५पं०७] साक्षात् प्रदर्शनमुच्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org