________________
८८
पार्श्वदेवगणिविरचिता ____ तथा सहेतुकोऽपि विनाशो विचार्यमाणो न घटते । तथाहि-असौ मुद्गरादिना क्रियमाणो विनाश्याद् घटादेर्भिन्नो वा क्रियेताऽभिन्नो वा ? । यद्यभिन्नस्तदा विनाशस्य तदव्यतिरेकाद् विनाश्यमेव कृतं स्यात् । तच्च स्वकारणकलापादेव सिद्धम्, किं तत्र विनाशहेतुना ? । तस्यैव च करणे सुतरां तस्य विनाशो न स्यात् । अथ भिन्नस्तदा संबन्धाभावात् कस्यासौ स्यात् ? । तथा सति घटवदविशेषेण विश्वस्याप्यसौ स्यात् । तथा भिन्नस्य तस्य करणे न किंचिद् विनाश्यस्योपकृतं भवेत् । तथा च सत्यविचलितरूप 5 एवासौ भावो भवेत् । अथ तत्संबन्धः क्रियते । कोऽयं संबन्धः ? इति वाच्यम् । तत्र 5
न तावत्तादात्म्यलक्षणः । व्यतिरेकिणा सार्धं तादात्म्यायोगात् । नापि तदुत्पत्तिः । विनाशस्य विनाश्यादुत्पत्तेरयोगात् । अपरश्च संबन्ध एव नेष्यते । किञ्च, असावविनश्वरस्वभावानां भावानां भवेद् विनश्वरस्वभावानां वा ?। यद्याद्यः कल्पस्तदा तेषां पुरन्दरशतैरप्यन्यथाकर्तुमशक्यत्वात् किं पुनर्लगुडादिमात्रेण तेषामन्यथाभावः स्यात् ? अथ द्वितीयः कल्पस्तदप्यचारु। स्वयं
क्षणनश्वरात्मकस्य स्वहेतुभ्य एवोत्पत्तेः किं नाशहेतुना कृत्यम् ? । तथाहि- यो यत्स्वभावः 10 स स्वहेतोरेवोत्पद्यमानस्तादृशो भवति न पुनः तद्भावे हेत्वन्तरमपेक्षते, यथा प्रदीपः । तथाहि- 10
प्रदीप: स्वयं प्रकाशस्वभावत्वान्न स्वप्रकाशेऽपरं प्रदीपान्तरमपेक्षते तद्वत् क्षणधर्मा चेद् भावो न किंचिन्नाशहेतुना। अतो न लगुडादिना घटादेर्विनाशः क्रियते, किन्तु भिन्नमेव वस्त्वन्तरं स्वसामग्रीवशेनोत्पद्यते कपालादिकमिति ।।
तथा आकाशमप्यालोकतमसी एवेति सौगताः । नेतरदवकाशदानादिस्वरूपं तन्त्रान्तरप्रसिद्धम् । तद्ग्राहकप्रमाणाभावात् । तथाहि- न प्रत्यक्षेण गृह्यते आकाशम्, नाप्यनुमानेन। आकाशाविनाभूतस्य लिङ्गस्यादर्शनादनुमानाप्रवृत्तेस्तदतिरिक्तस्य प्रमाणस्य चाभावादिति । पुद्गलस्त्वात्मसंज्ञकश्चित्तचैत्तसंतानरूप एव, न तु तद्व्यतिरिक्तो नित्यत्वादिधर्मात्मकः कश्चिदस्ति । प्रदर्शितन्यायेन तत्प्रतिपादकप्रमाणाभावादिति मन्यन्ते । प्रकृते चाकाशेनैव प्रयोजनमत आश्रयासिद्धोऽयं हेतुरिति ।
प्रतिज्ञार्थस्यैकदेश: सन्नसिद्ध [पृ०३३ पं०५] इति विग्रहः । प्रतिज्ञार्थस्यासिद्धत्वाद्धेतुरपि तदेकदेशः सन्नसिद्ध इत्यर्थः । अव्यापकासिद्ध इति [पृ०३३ पं०५] । इह पक्षधर्मो यो न भवति स एवोच्यते असिद्धः । ततोऽसिद्धस्यैवेह विचार्यमाणत्वात् पक्षस्य इत्यध्याहृत्य समसनीयम् । यथा पक्षस्य धर्मिरूपस्याव्यापक: सन्नसिद्धोऽव्यापकासिद्ध इति । इह पक्षीकृतेषु तरुषु पत्रसंकोचलक्षणः स्वाप एकदेशे न सिद्धः । न हि सर्वे वृक्षा रात्रौ पत्रसंकोचभाजो न्यग्रोधादावदर्शनात्तस्य, किन्तु किंचिदेवेति ।
25
१ तुको विनाशोऽपि विचा° C. ॥ २ विनाशस्यो' c. ॥ ३ आकाशमित्यालो' J. | 25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org