________________
न्यायप्रवेशकवृत्तिपञ्जिका।
८७ जलादेः सकाशात् प्रभवो यस्य स जलादिप्रभवः [पृ०३२ पं०१२] । रेणुवर्तिधूलिरेखोच्यते । आदिशब्दाद् धूम-महिकादेर्ग्रहणम् । स्वयमेव धूमविषयं संदेहमापद्यते भूतसंघातः, अनिपुणेन च प्रमात्रा प्रयुज्यते इत्यापाद्यमानः, भूतानां संघात इति विग्रहः । अग्निसिद्धौ अग्निसिद्ध्यर्थम्।
नन्वेवमपि यत्रास्ति धूमस्तत्रास्य कथं न गमकत्वमित्याह- निश्चितो हीत्यादि । 5 धूमत्वेनेति वह्निजन्यत्वलक्षणधूमस्वरूपेण । यदा सत्यधूमोऽपि बाष्पादित्वेन संदिग्धो भवति 5 तदा गमकत्वरूपानिश्चयात् संदिग्धासिद्ध इत्यर्थः । प्रयोगस्त्वेवम्-अग्निमानयं प्रदेशो धूमवत्त्वान्महानसवदिति । अपक्षधर्मता तु स्पष्टैव गम्यते । यतो नात्र धूमवत्त्वलक्षणो हेतुस्तत्प्रदेशधर्मत्वेन वर्तते, किन्तु सूक्ष्मक्षित्यादिसमूह एव, स च न सत्यधूमशब्दवाच्य इति ।
___ गुणाश्चास्य षडिति [पृ०३२ पं०१९] । तत्र संख्या गुणो यथैकमाकाशमिति । 10 घटाकाशं पटाकाशमित्यादयश्च भेदा: कल्पिता एवेति । परिमाणं महत्त्वं यथा महदाकाशमिति। 10
पृथक्त्वं नाम पृथिव्यादीनां द्रव्याणां विभिन्नद्रव्यमाकाशमिति विभिन्नताहेतुः । विवक्षितप्रदेशस्थितेन घटादिना संहाकाशस्य संबन्धः संयोगः । विवक्षितस्थानाद् घटादावुत्सारिते घटादिना सह घटाद्यवष्टब्धस्याकाशस्यं विश्लेषो विभागः । तथा शब्दस्यासाधारणकारणेनाकाशाख्येन जन्यत्वाच्छब्दोऽम्बरगुणः । वैशेषिकस्य हि कारणत्रयात् कार्यस्यो
त्पत्तिरिष्यते । तत्राकाशं शब्दस्य समवायिकारणम् । आकाश-ताल्वादिसंयोगोऽसम15 वायिकारणम्। ताल्वादयस्तु निमित्तकारणमिति ।
15 धर्मिणोऽसिद्धत्वमपि कथं सिद्धमिति चेदाह- तथा चेत्यादि [पृ०३३ पं०१] । पञ्च वस्तूनि परेषां यानि तानि संज्ञामात्रादिशब्दव्यपदेश्यानीत्यर्थः । तत्र संज्ञैव संज्ञामात्रं नाममात्रमित्यर्थः । न तु वस्तुसदस्तीति । प्रतिज्ञामानं वचनमात्रम्, यथाऽस्त्यात्मादीति । परं विचारं न क्षमते। संवृतिमात्रं कल्पनामात्रम् । लोके संव्यवहारनिमित्तं यत् क्रियते तत् संव्यवहारमात्रम् । अद्धति कालस्याख्या । प्रतिसंख्यानिरोधः सहेतुको विनाशः । पुद्गलस्त्वात्मोच्यते। अयं भावार्थ:- इहार्थक्रियासमर्थं यत्तदेव वस्त्वभ्युपगम्यते बौद्धैः । । अतीतकालस्य च विनष्टत्वाद् भविष्यतश्चानुत्पन्नत्वात् तयोरर्थक्रियासामर्थ्यविरहः । किन्तु वर्तमानक्षण एवार्थक्रियासमर्थ इति स एवाभ्युपगम्यते तत्त्वतः । तथा चोक्तम्
अर्थक्रियाऽसमर्थस्य विचारैः किं तदर्थिनाम्। षण्ढस्य रूपवैरूप्ये कामिन्याः किं परीक्षया ?। [प्रमाणवा० ३। २११] इति ।
१ संदिह्यते तदा c. ॥ २ सह सम्बन्ध: संयोग आकाशस्य । विव° c. ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org