________________
८६
पार्श्वदेवगणिविरचिता एवाभिव्यज्यन्ते एवं शब्दोऽपि नित्यतया ताल्वादिभिः सन्नेवाभिव्यज्यते न त्वसन्नुत्पद्यते । न चासिद्धं शब्दनित्यत्वमिति वाच्यम्। प्रत्यभिज्ञानादेरुपलम्भात् । यमहमश्रौषं गोशब्दं तमेतर्हि शृणोमीति श्रौत्रं विज्ञानमुपजायमानं दृष्टम् । न चेदमन्यताग्रहणादप्रमाणम् , अन्यताग्राहकप्रमाणानुपलब्धेः। तथाऽर्थापत्त्या च शब्दस्य नित्यत्वं विज्ञायते । अनित्यत्वे हि संकेतकालानुभूतशब्दविलयोत्तरकालं शब्दान्तरोपलम्भादसंकेतितादर्थप्रतिपत्तिर्न स्यात् । सा चोपलभ्यते । इति तदन्यथानुपपत्त्या शब्दस्य नित्यत्वं ज्ञायते ।
सांख्यमते तु सर्वमपि वस्तु नासदुत्पद्यते नापि सद् विनश्यति । किन्त्वाविर्भावतिरोभावमात्रमुत्पत्ति-विनाशावभ्युपगम्यते । ततः सदेव कार्य कारणात्मन्यभिव्यज्यते । प्रमाणयन्ति च-यदसत्तन्न केनचित् कर्तुं शक्यम्, यथा गगनाम्भोरुहम् । असच्च कारणावस्थायां
कार्यमिति व्यापकविरुद्धोपलब्धिः । तथाहि- यदि कार्य केनापि स्वरूपेण कारणात्मनि 10 न स्यात्तदा क्षीरादावपि सर्वथा दध्यादेरसत्त्वान्न तस्मादपि तस्योत्पत्तिः स्यात् । तस्माद् 10
विज्ञायतेऽस्ति केनापि रूपेण कार्य कारणात्मनि । ततः स्वस्वसामग्रीवशेन कार्यमस्फुटं सत् स्फुटीभवति। एवं च प्रकृते शब्दोऽपि सन्नेव ताल्वादिभिरभिव्यज्यत इति । ततश्च नित्यशब्दवादिनं प्रति कृतकत्वमसिद्धो हेतुः । नन्वपक्षधर्मो हेतुरसिद्धः स्यात्, अत्र च
कृतकत्वं शब्दधर्मः, तत् कथमसिद्धतादोष: स्यात् ? । उच्यते । मीमांसक-कापिलयोः 15 कृतकत्वमपूर्वोत्पादलक्षणं बौद्धाभिमतं शब्दे न सिद्धम्, किन्त्वभिव्यक्तिरेव सिध्येत्, 15
पक्षधर्मताऽस्त्येवेति । केवलं मीमांसकस्य प्रत्यभिज्ञानादिकमुपलभमानस्य शब्दे कृतकत्वं तावदसिद्धं यावत् परपक्षव्युदासद्वारेण प्रमाणतो न व्यवस्थाप्यते । अत एवान्यतरासिद्धो वस्तुवृत्त्या हेतुरेव, केवलं पक्षधर्मतया परेणाप्रतिपन्नत्वादसिद्धबुद्धिं जनयति । प्रतिपादिते च प्रमाणतः पक्षधर्मत्वे ततः साध्यसिद्धेर्भावाद्धेतुरेवेति । अत एव न्यायशास्त्रे उक्तं
यथा20 यदा वादी सम्यग्घेतुत्वं प्रतिपद्यमानोऽपि पक्षधर्मत्वादितत्समर्थनन्यायविस्मरणादिनिमित्तेन 20 प्रतिवादिनं प्राश्रिकान् वा बोधयितुं न शक्नोति तदाऽन्यतरासिद्धत्वम् [ ] इति ।।
___ अन्यतरासिद्धो हेत्वाभास एव नास्तीत्येके । तथाहि- परेणासिद्ध इत्युद्भाविते यदि वादी तत्साधकं प्रमाणं न दर्शयति ततः प्रमाणाभावादुभयोरसिद्धः । अथ प्रमाणं दर्शयति ततः प्रमाणस्यापक्षपातित्वादुभयोः सिद्धः । अन्यथा साध्यमप्यन्यतरासिद्धं न कदाचित् 25 सिध्यतीति व्यर्थः प्रमाणोपन्यासः स्यात् । अथ यावत् परं प्रति प्रमाणेन न प्रसाध्यते तावत्तं 25
प्रत्यसिद्ध इति चेत् गौणं तमुसिद्धत्वम् । यथा रत्नादिपदार्थस्तत्त्वतोऽप्रतीयमानस्तावन्तं कालं रत्नाभासः, न मुख्यत इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org