________________
न्यायप्रवेशकवृत्तिपञ्जिका। आत्ममन:संयोग इति समसनीयम् । आत्मनि सुखादीनामुत्पत्तौ स्रक्-चन्दनादयो निमित्तकारणं भवन्तीति । सामग्र्या एवेति [पृ०३० पं०११] । यथा वैशेषिकस्य कारणत्रयात् कार्यस्योत्पत्तिरिष्यते एवं न बौद्धस्य मते। किन्तु विज्ञानसंततौ सुखादयः स्रक्चन्दनादिसामग्रीवशादुत्पद्यन्ते इत्येतदेवाभ्युपगम्यते इति भावः ।
प्रसिध्यति स्म प्रसिद्धोऽकर्मक: कर्तरि क्तः । यस्मिन्निति पक्षाभासे [पृ०३०पं०१३]। ।
अथ कथमेषां पक्षाभासत्वम् ? किमेकेन स्वरूपेणोतश्विद् भिन्नेन इत्याहएषामित्यादि [पृ०३० पं०१५] ।
स्वं चेत्यादि [पृ०३० पं०१७] । धर्मस्य श्रावणत्वादे: स्वरूपं श्रवणग्राह्यत्वादिकं धर्मस्वरूपम् । आत्मनोऽनतिक्रमेण यथात्मा, तस्य भावो याथात्म्यमवैपरीत्यम् । धर्मस्य
याथात्म्यमिति विग्रहः। निराक्रियतेऽनेनेति अश्रावणत्वादिना श्रावणत्वादिकं प्रसिद्धम् । 10 यद्वा निराकरोत्यश्रावणत्वादिकं कर्चिति निराकरणम्। प्रतिषेधतीति प्रतिषेधनं निषेधकमित्यर्थः। 10
धर्मयाथात्म्यप्रतिषेधद्वारेणेति, अश्रावणत्वादेः पक्षाभासत्वमिति शेषः । अथ किमेभिः प्रसिद्धं निराक्रियते येन पक्षाभासत्वमित्याह- प्रतिषिध्यते चेति [पृ०३०५०२१] । धर्मयाथात्म्यं श्रावणत्वादिकम्। परं न तच्छक्यते निराकर्तुं प्रत्यक्षादिप्रसिद्धधर्मयाथात्म्येनैव तस्याश्रावणत्वादेर्बाध्यमानत्वात्।
तत्रेति [पृ०३१ पं०२] एवं सति प्रतिपाद्यतेऽवबोध्यते परोऽनेन वचनेन कृत्वेति । प्रतिपादनं वचनमुच्यते । प्रत्याय्यते परोऽनेनेति प्रत्यायनम् । परस्य प्रत्यायनमिति समासः। अथ किं दृष्टान्तादावप्युपन्यस्ते प्रतिपादनमेषु त्रिषु न संभवति येन पक्षाभासत्वमित्याहन चेति [पृ०३१ पं०४] ।
वादिप्रतिवादिनोरुभयोरपि श्रावणः शब्द इत्यत्रार्थेऽविप्रतिपत्तेश्च साधनवैफल्यम् [पृ०३१ पं०६] । अथ किमत्र तात्पर्यं स्थितमित्याह - ततश्चेत्यादि [पृ०३१ पं०६] ।
हेतुवदाभासन्त इति [पृ०३१ पं०१२] । हेतुस्थाने प्रयुक्तत्वात् साध्यासाधनाच्चेत्यर्थः। - संदिग्धः संशयित उच्यते । तत्रेति [पृ०३१ पं०२१] । पूर्ववदिति [पृ०३१ पं०२३] । तत्र तेष्वसिद्धादिषु चतुर्पु मध्ये उभयासिद्धत्वगुणेनाऽऽद्यो निर्धार्यते ।।
कृतकत्वादित्यादि [पृ०३२ पं०८,९] । मीमांसकं भट्टम् । कापिलं वेति सांख्यम्। तथाहीत्यादि [पृ०३२ पं०१०] । अयमर्थः- यथा घटादयः प्रदीपेन तमसि स्थिताः सन्त 25 १ दावुपन्यस्ते c. ॥ २ स्थिता अभिव्यज्यन्ते सन्त एव, एवं c.॥
15
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org