________________
८४
पार्श्वदेवगणिविरचिता देशे इति स्वभावानुपलब्धिः । न च वाच्यम् 'अवयव्यभावे परमाणूनामतीन्द्रियत्वात् प्रतिभासो न स्यात्' इति। यतो विशिष्टावस्थाप्राप्तानामणूनामिन्द्रियग्राह्यत्वादतीन्द्रियत्वमसिद्धमिति । तथाहि- परस्पराविनिर्भागवर्तितया सहकारिवशादुत्पन्नाः परमाणवोऽध्यक्षतामुपयान्त्येवेति। न हि सर्वदैवेन्दियातिक्रान्तस्वरूपाः परमाणवः क्षणिकवादिभिरभ्युपगम्यन्ते। नन्ववयव्यभावे बहुषु परमाणुष्वक्षव्यापारेणैक: पट इति कथं प्रत्ययः ? । नैवम् । अनेकसूक्ष्मतरपदार्थसंवेदनत 'एक इति विभ्रमोत्पत्तेः । प्रदीपादौ नैरन्तर्योत्पन्नसदृशापरापरज्वालादिपदार्थसंवेदनेऽ- . प्येकत्वविभ्रमवत् । ननु भेदेनानुपलक्ष्यमाणाः परमाणवः कथमध्यक्षाः ? । नैवम् । विवेकेनानवधार्यमाणस्यानध्यक्षत्वे प्रदीपादौ पूर्वापरविभागेनानुपलक्ष्यमाणेऽनध्यक्षताप्रसक्तेः,अवयवानां विभागानुपलक्षणेऽवयव्यपि कथं तथा प्रत्यक्षत्वेनेष्ट:? । किञ्च, यदि
बाह्यार्थनिर्भासे नाणवः प्रतिभासन्ते तदाऽवयव्यभ्युपगमेऽपि पटादिर्विषयः स्थूलरूपतया 10 प्रतिभासमान एकोऽनेको वा । एकोप्यवयवैरारब्धोऽनारब्धो वा । तत्र न तावदयमुभय- 4
रूपोऽप्येको युक्तः । स्थूलस्यैकस्वभावत्वविरोधात् । तथाहि- यदि स्थूलमेकं स्यात्तदैकदेशरागे सर्वस्य रागः प्रसज्येत एकदेशावरणे सर्वस्यावरणं भवेत् । अनेकत्वे चाभ्युपगमविरोधः । बहुष्वप्यवयवेष्वेकस्यैवावयविनो वृत्तेर्भवद्भिरभ्युपगमात् । न च स्थूलसूक्ष्मादिव्यपदेशोऽवयव्यसत्त्वेऽनुपपन्न इति वाच्यम् । अवयवा एव तथा उत्पद्यमानाः अल्प-बहुतराः स्थूल
सूक्ष्मादिव्यपदेशं लभन्ते । इत्यलं प्रपञ्चेन । 15 अथ किं बहूनि कारणानि विद्यन्ते येन समवायिकारणमित्यनेन विशेष्यते आत्मेत्याह- 15
वैशेषिकस्य हीति [पृ०३० पं०५] । समवायिकारणादिति [पृ०३० पं०६] । समेकीभावे, अवोऽपृथक्त्वे, अय गतौ । ततश्चैकीभावेनापृथग्गमनं समवायः संश्लेषः, स येषामस्तीति ते समवायिनस्तन्त्वादयो यस्मात्तेषु पटादिकं समवैतीति । ते च ते कारणं च तस्मात् ।
तथाहीत्यादि [पृ०३० पं०६] । वैशेषिकमते तन्त्वादयः समवायिकारणाख्यमाधारभूतं कारणं 20 वर्तन्ते पटादेराधेयभूतकार्यस्य, बौद्धानां तु तन्त्वादयः उपादानकारणं भण्यन्ते, जैनानां ।
परिणामिकारणमिति, प्रस्तावादिदमुक्तम् । तथा तान-वितानीभावे सति यस्तन्तुसंयोगः सोऽसमवायिकारणम्, संयोग-संयोगिनोभिन्नत्वाभ्युपगमात् समवायेन चैकीकरणात् । तुरीति। आदिशब्दात् कुविन्दादेर्ग्रहणम् । प्रकृते कारणत्रययोजनामाह- इत्थमित्यादि [पृ०३० पं०८] । आत्मा सुखादीनामाधेयभूतानामात्मगुणानां समवायिकारणाख्यमाधारभूतं कारणम् । यतस्ते
सुखादय आत्मनि समवेता उत्पद्यन्ते । आत्ममनसोः संयोगोऽसमवायिकारणं सुखादीनामुत्पत्तौ 25
१ परमाणूनां प्रतिभासो न स्यादिति अतीन्द्रियत्वात् । यतो c
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org