________________
न्यायप्रवेशकवृत्तिपञ्जिका। खरविषाणादीनामप्युत्पत्तिः स्यादिति चेत् । न । कारणाभावात् । येषां हि कारणमस्ति जनकं तेषामेवोत्पत्तिः, न च खरविषाणादेर्जनकमस्ति कार्याभावेनैव कारणाभावप्रतीतेः । एवं तन्तुषु घटादेरनुत्पत्तिर्वाच्या । मृत्पिण्डे च पटादेरिति। प्रतिनियतसामग्रयाः प्रतिनियतकार्यजनकत्वात् । तन्तूपलक्षिता हि सामग्री पटस्यैव जनिकोपलब्धाऽन्या त्वन्यस्येत्युपादानेषु प्रतिनियतकार्योपलम्भ एव कार्यं नियमयति । न तु कारणे सत्त्वात्तन्नियमः। 5
किञ्च, यदुत्पद्यते तदुत्पत्तेः पूर्वमसदेवोत्पद्यत इति व्याप्तिरिष्यते, न पुनर्यदसत्तदुत्पद्यत एवेति । तस्माद् विद्यमानस्योत्पत्तिाहता, विद्यमानत्वादेव । मृद्-दण्ड-चक्रादिकारकाणां व्यापारवैयर्थ्यं च । अथाभिव्यक्त्यर्थं व्यापारः कारकाणामिति चेत्तर्हि साऽभिव्यक्ति: सती
क्रियते असती वा। सत्पक्षे विद्यमानत्वादेव कारकवैयर्थ्यम् । अथाभिव्यक्तिरविद्यमानैव 10 क्रियते तर्हि सदुत्पद्यत इति व्याहतम् । अभिव्यक्तेः स्वरूपोपलम्भस्याविद्यमानस्यैवोत्पत्तेः। 10
न चावरणव्यपगमोऽभिव्यक्तिः, नित्याया अभिव्यक्तेरावरणस्याकिंचित्करत्वात् । किंचित्करत्वे वाऽनित्यत्वप्रसङ्गः । यश्च 'अङ्कुरो जायते, घटं कुरु' इति व्यपदेशोऽसिद्धस्यापि सिद्धतया स भाविनि भूतवदुपचार इति न्यायादौपचारिक इति । तस्माद् विद्यमानस्योत्पत्त्यर्थासंभवात् घट-शब्दादिरसनेवोत्पद्यते, यश्चोत्पद्यते स कृतकः । कृतकत्वाच्चानित्यत्वसिद्धिः । एवं च विनाशी शब्दः कृतकत्वाद् घटवदिति सांख्यं प्रति बौद्धस्य वदतो न पक्षाभासतेति । 15 दृष्टान्तमप्रसाध्य च प्रयोगे क्रियमाणे स्यादेव । पुनः साधनापेक्षित्वात् । तथाहि- यदेव साधनमुपन्यस्यते वादिना तत् सर्वं तस्यासिद्धमित्यपरापरसाधनोपन्यासेनाऽनवस्थैव स्यात् । किञ्च, अप्रसिद्धविशेषणा-ऽप्रसिद्धविशेष्यनामानौ तत्त्वतः पक्षाभासावपि न स्तः । तथाहि
एतौ किं वाद्यपेक्षया पक्षाभासौ स्तः प्रतिपाद्यापेक्षया वा ? । तत्राद्यपक्षे प्रत्यक्षादिप्रमाणैः 20 प्रतिपादकस्य सिद्धे विशेष्य-विशेषणे ब्रुवतो न पक्षाभासता। प्रमाणप्रतिपन्नं वदतः 20 पक्षाभासत्वायोगात् । प्रतिपाद्यापेक्षया तु नैतद् दूषणम्। अप्रतिपन्नतत्त्वस्य प्रतिपाद्यत्वादिति।
निरात्मान [पृ०३० पं०२] इति निरवयविनः । न धर्माणामनुगतः कश्चिदवयवी समस्तीत्यर्थः, तद्ग्राहकप्रमाणाभावात् । तथाहि- गुणा-ऽवयवव्यतिरिक्तमवयवि द्रव्यं 25 नोपलभ्यते । न हि शुक्लादिगुणेभ्यस्तन्त्वाद्यवयवेभ्यश्चार्थान्तरभूतं पटादिद्रव्यं चक्षुरादिज्ञाने 25
प्रतिभासते । दृश्यश्चाऽवयव्यभ्युपगतः। एवं च यदुपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते तदसदिति व्यवहर्तव्यम्। यथा क्वचित् प्रदेशे घटः । नोपलभ्यते चावयवव्यतिरिक्तोऽवयवी तत्रैव
15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org