________________
८२
पार्श्वदेवगणिविरचिता कश्चिदाह- ननु बौद्धमते पक्षवचनमेव नोच्चार्यते तत् कथमयं बौद्धस्य पक्षाभास:? । सत्यमेतद्, बालव्युत्पत्त्यर्थमुदाहरणदर्शनतः शास्त्र एवेदमभ्युपगम्यते न वादे। अनुपयोगात्। न खलु वादकाले शिष्या व्युत्पाद्यन्ते । व्युत्पन्नप्रज्ञानामेव वादेऽधिकारात् । ततो वादे
हेतुपुर:सर एव प्रयोगः कार्यः । 5 आहे त्यादि [पृ०२९ पं०१६] । विप्रतिपत्तौ विवादे इष्टार्थप्रसाधनार्थम्। 5 विप्रतिपत्तिरेव चेति नित्यानित्यादिवस्तुधर्मविषया एतद्दोषकी पक्षाभासदोषक: इति कुतोऽनुमानं [पृ०२९ पं०१७] सम्भवति, किं तर्हि ? अनुमानं न कुत्रापि कर्तुं युक्तमित्यर्थः । तद्दोषकर्तृ पक्षाभासदोषकारि । युक्तिविरुद्धत्वादिति युक्त्या निराकृतत्वात् पक्षाभासत्वस्य।
[पृ०२९ पं०१८] तथाहीत्यादिनैनमेवार्थं भावयति । दृष्टान्तसाधने कृते इति 10 दृष्टान्तस्य घटादे र नित्यत्वसिद्धौ कृतायामित्यर्थ: । दृष्टान्तसिद्धिश्च प्रकृते 10
सत्कार्यवादनिराकरणतो विधेया। तथाहि - शक्तानां कारणानां कार्योत्पत्तौ व्यापाराच्छक्तिरूपतया कार्यस्यावस्थानमिति सांख्याः। तदसंगतम् । कारणे कार्यस्य पूर्वमनुपलम्भात् । अथानभिव्यक्तेरनुपलम्भ इति चेत् सद्भावे किं प्रमाणम् ?। उत्पत्तिरिति
चेत् । न । विद्यमानस्योत्पत्तेरयोगात् । प्रागेव तस्य विद्यमानत्वात् । अथाविद्यमानस्योत्पत्तौ 15 यद्यन्वयी स्यादिति । अयमदोषः । कस्मात् एकान्ततानभ्युपगमात् । तदेतत् त्रैलोक्यं व्यक्तेरपैति नित्यत्वप्रतिषेधात्। 15
अपेतमप्यस्ति विनाशप्रतिषेधात् । संसर्गाच्चास्य सौक्ष्म्यम्, सौक्ष्म्याच्चानुपलब्धिरिति। ___लक्षणपरिणामो धर्मोऽध्वसु वर्तमानोऽतीतोऽतीतलक्षणयुक्तोऽनागतवर्तमानाभ्यां लक्षणाभ्यामवियुक्तः । तथाऽनागतोऽनागतलक्षणयुक्तो वर्तमानातीताभ्यां लक्षणाभ्यामवियुक्तः । तथा वर्तमानो वर्तमानलक्षणयुक्तोऽतीतानागताभ्यां लक्षणाभ्यामवियुक्त इति । यथा पुरुष एकस्यां स्त्रियां रक्तो न शेषासु विरक्तो भवतीति।" इति पातञ्जलयोगदर्शनस्य व्यासभाष्ये तृतीये विभूतिपादे। "तदेतत् त्रैलोक्यं न तु द्रव्यमानं व्यक्तेरर्थक्रियाकारिणो रूपादपैति। कस्मान्नित्यत्वप्रतिषेधात् प्रमाणेन । यदि हि घटो व्यक्ते पेयात् कपालशर्कराचूर्णादिष्ववस्थास्वपि व्यक्तो घट इति पूर्ववदुपलब्ध्यर्थक्रिये कुर्यात् तस्मादनित्यं त्रैलोक्यम् । अस्तु तमु नित्यमेवोपलब्ध्यर्थक्रियारहि तत्वेन गगनारविन्दवदतितुच्छत्वादित्यत आह-अपेतमप्यस्ति,नात्यन्ततुच्छता येनैकान्ततोऽनित्यं स्यादित्यर्थः । कस्माद्विनाशप्रतिषेधात् प्रमाणेन । तथाहि-यत्तुच्छं न तत्कदाचिदप्युपलब्ध्यर्थक्रिये करोति ? यथा गगनारविन्दम् । करोति चैतत् त्रैलोक्यं कदाचिदुपलब्ध्यर्थक्रिये इति । तथोत्पत्तिमद्रव्यत्वधर्मलक्षणावस्थायोगित्वादयोऽप्यत्यन्ततुच्छगगननलिननरविषाणादिव्यावृत्ताः सत्त्वहेतव उदाहार्याः । तथा च धर्मी नात्यन्तं नित्यो येन चितिशक्तिवत् कूटस्थनित्यः स्यात्, किन्तु कथंचिन्नित्यः। तथा च परिणामीति सिद्धम् । एतेन मृत्पिण्डाद्यवस्थासु कार्याणां
घटादीनामनागतानां सत्त्वं वेदितव्यम् । स्यादेतत् । अपेतमपि चेदस्ति कस्मात्पूर्ववन्नोपलभ्यत इत्यत आह-संसर्गात् 25 स्वकारणलयात् सौक्ष्म्यं दर्शनानहत्वं ततश्चानुपलब्धिरिति" । इति वाचस्पतिमिश्रविरचितायां टीकायां तत्त्ववैशारद्याम् 25
१ युज्यत इत्यर्थः c.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org