________________
न्यायप्रवेशकवृत्तिपञ्जिका। प्रकृत्याख्यमेतद्विपरीतमिति। तत्र विपरीतता सुयोज्यैव, नवरं प्रधानं दिवि भव्यन्तरिक्षे च सर्वत्र व्यापितया वर्तत इति व्यापित्वं तस्य । तथाऽव्यक्तस्य व्यापकत्वेन संचरणरूपायाः क्रियाया अभावान्निष्क्रियत्वं च द्रष्टव्यम् । इति दिड्मात्रमिदं दर्शितम् । विशेषव्याख्यानं तु सांख्यशास्त्रादेव सांख्यसप्तत्यादेरवसेयम् ।।
___ तदेतत् प्रकृतोपयोगि, यद्यस्मादुत्पन्नं तत् तस्मिन्नेव लयं गच्छतीत्ययमेव व्यक्तेभ्रंशो 5 नापरः कश्चिन्निरन्वयरूपोऽत आह- तैदेतदित्यादि [पृ०२९ पं०१४] । इह त्रैलोक्यशब्देन महदादिकमेव कार्यमुच्यते । स्वर्ग-मर्त्य-पाताललक्षणस्यापि च त्रैलोक्यस्य महदादिव्यतिरिक्तस्याभावात् । नित्यत्वप्रतिषेधादिति । आकाशादीनाश्रित्य नैयायिकादिभिरुक्तस्य
'अप्रच्युतानुत्पन्नस्थिरै कस्वभावं नित्यम्' इत्यस्य निषेधात् । तथाऽपेतमप्यस्ति 10 विनाशप्रतिषेधादिति । आविर्भाव-तिरोभावमात्रस्यैवाङ्गीकरणेन बौद्धाभ्युपगतस्य निरन्वय- 10
विनाशस्य निराकरणादित्यर्थः । ततोऽत्र विनाशित्वं निरन्वयरूपं सांख्यस्य न साध्यमिति पक्षाभासत्वम्।
15
# "एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः ॥१३॥ एतेन पूर्वोक्तेन चित्तपरिणामेन धर्मलक्षणावस्थारूपेण भूतेन्द्रियेषु धर्मपरिणामो लक्षणपरिणामोऽवस्थापरिणामश्चोक्तो वेदितव्यः । तत्र व्युत्थाननिरोधयोरभिभवप्रादुर्भावौ धर्मिणि धर्मपरिणामः । लक्षणपरिणामश्च निरोधस्त्रिलक्षणस्त्रिभिरध्वभिर्युक्तः । स खल्वनागतलक्षणमध्वानं प्रथमं हित्वा धर्मत्वमनतिक्रान्तो वर्तमानलक्षणं प्रतिपन्नः। यत्रास्य स्वरूपेणाभिव्यक्तिः । एषोऽस्य द्वितीयोऽध्वा । न चातीतानागताभ्यां लक्षणाभ्यां वियुक्तः। ___तथा व्युत्थानं त्रिलक्षणं त्रिभिरध्वभिर्युक्तं वर्तमानलक्षणं हित्वा धर्मत्वमनतिक्रान्तमतीतलक्षणं प्रतिपन्नम् । एषोऽस्य तृतीयोऽध्वा । न चानागतवर्तमानाभ्यां लक्षणाभ्यां वियुक्तम्। एवं पुनर्युत्थानमुपसंपद्यमानमनागतलक्षणं हित्वा धर्मत्वमनतिक्रान्तं वर्तमानलक्षणं प्रतिपन्नम् । यत्रास्य स्वरूपाभिव्यक्तौ सत्यां व्यापारः । एषोऽस्य द्वितीयोऽध्वा । न चातीतानागताभ्यां लक्षणाभ्यां वियुक्तमिति । एवं पुनर्निरोध एवं पुनर्युत्थानमिति ।
तथाऽवस्थापरिणामः । तत्र निरोधक्षणेषु निरोधसंस्कारा बलवन्तो भवन्ति दुर्बला व्युत्थानसंस्कारा इति । एष धर्माणामवस्थापरिणामः । तत्र धर्मिणो धर्मैः परिणामो धर्माणां त्र्यध्वनां लक्षणैः परिणामो लक्षणानामप्यवस्थाभिः परिणाम इति । एवं धर्मलक्षणावस्थापरिणामैः शून्यं न क्षणमपि गुणवृत्तमवतिष्ठते । चलं च गुणवृत्तम् । गुणस्वाभाव्यं त प्रवत्तिकारणमक्तं गणानामिति । एतेन भतेन्द्रियेष धर्मधर्मिभेदात त्रिविधः परिणामो वेदितव्यः।
परमार्थतस्त्वेक एव परिणामः । धर्मिस्वरूपमात्रो हि धर्मो धर्मिविक्रियैवैषा धर्मद्वारा प्रपञ्च्यत इति । तत्र धर्मस्य धर्मिणि वर्तमानस्यैवाध्वस्वतीतानागतवर्तमानेषु भावान्यथात्वं भवति न तु द्रव्यान्यथात्वम् । यथा सुवर्णभाजनस्य भित्त्वाऽन्यथाक्रियमाणस्य भावान्यथात्वं भवति न सुवर्णान्यथात्वमिति ।
अपर आह- धर्मानभ्यधिको धर्मी पूर्वतत्त्वानतिक्रमात् । पूर्वापरावस्थाभेदमनुपतितः कौटस्थ्येनैव परिवर्तेत
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org