________________
पार्श्वदेवगणिविरचिता बुध्यते, त्वक् स्पर्शम्, चक्षू रूपम्, जिह्वा रसम्, घ्राणं गन्धमिति । पञ्च कर्मेन्द्रियाणि वाक्पाणि-पाद-पायूपस्थसंज्ञानि । वाक् चेह 'उच्यते अनयेति वाक्' उर:-कण्ठादिस्थानाष्टतयी। तदुक्तम्- वाग् वचनमुच्चारयति, हस्तौ कर्म कुरुतः [ ] इत्यादि । अपरं च मनः, तच्चार्थमन्तरेणापि संकल्पवृत्ति। तद्यथा- कश्चिद् बटुः शृणोति ग्रामान्तरे भोजनमस्तीति । तत्र तस्य संकल्पः स्याद् यास्यामीति । तत्र चाहं ग्रामे किं गुडदधिरूपं भोजनं प्राप्स्ये, उतश्विद्दधि, किंवा किमपि नेत्येवंरूपं मन इति । तथाऽहंकारात् पञ्च तन्मात्राणि चोत्पद्यन्ते। यथा-गन्धतन्मानं सुरभ्यादिगन्धविशेषः, रसतन्मात्रं तिक्तादिरसविशेषः, रूपतन्मात्रं शुक्लकृष्णादिरूपविशेषः, स्पर्शतन्मात्रं मृदुकठिनादिस्पर्शविशेषः, शब्दतन्मात्रं शब्दविशेष इति षोडशको गणः । तन्मात्रेभ्यश्च यथाक्रमं पञ्च भूतानि पृथिव्यप्तेजोवाय्वाकाशसंज्ञानि
उत्पद्यन्ते। पञ्चविंशतितमः पुरुषः, तल्लक्षणं च चैतन्यं पुरुषस्य स्वरूपम् [ ] इति । इति 10 पञ्चविंशतितत्त्वानि । तथा चोक्तम्
10 प्रकृतेर्महांस्ततोऽहंकारस्तस्माद् गणश्च षोडशकः । तस्मादपि षोडशकात् पञ्चभ्यः पञ्च भूतानि॥ [ सांख्यका० २२ ] इति ।
तत्र महदादयः प्रकृतेर्विकारास्ते च व्यक्तेभ्रंश्यन्ति। प्रकृतिस्तु नित्याऽभ्युपगम्यते । ततो न कदाचिदपि सा स्वरूपाद् भ्रश्यति । तथा च महदादिकस्य प्रकृतेश्च सांख्यैः १ स्वरूपमिदमुक्तम्। यथा . .
हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम् । सावयवं परतन्त्रं व्यक्तं विपरीतमव्यक्तम्॥ [सांख्यका १० ] इति ।।
तत्र हेतुमत् कारणवत्। अनित्यमिति उत्पत्तिधर्मकत्वाद् बुद्ध्यादेः । अव्यापीति प्रतिनियतं न सर्वगम् । सक्रियमिति सह क्रियाभिरध्यवसायादिभिर्वर्तत इति सक्रियं सव्यापार संचरणक्रियावदिति यावत् ।
अनेकमिति त्रयोविंशतिभेदात्मकम् । आश्रितमित्यात्मोपकारकत्वेन प्रधानमवलम्ब्य 20 स्थितम्। लिङ्गमिति यद्यस्मादुत्पन्नं तत्तस्मिन्नेव लयं गच्छति । तत्र भूतानि तन्मात्रेषु लीयन्ते । तन्मात्राणीन्द्रियाणि चाहंकारे । स च बुद्धौ। सा चाव्यक्ते । तच्चानुत्पाद्यत्वान्न क्वचित् प्रलीयते । सावयवमिति शब्द-स्पर्श-रूप-रस-गन्धात्मकैरवयवैर्युक्तत्वात् । परतन्त्रमिति कारणायत्तत्वात् । इत्येवंरूपं व्यक्तं महदादिकम् । अव्यक्तं तु .
15
१ स्वं रूपं J. P.॥ २ °यतमसर्वगतं c. ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org