________________
न्यायप्रवेशक वृत्तिपञ्जिका ।
आगमेत्यादि [ पृ०२८ पं०१५] । आगम इह वैशेषिकमर्तव्यवस्थाकारीणि शास्त्राण्युच्यन्ते। तत्र यः किल वेदः सामादिकोऽपौरुषेयतया नित्यः कैश्चिदभ्युपगम्यते तस्यापि पौरुषेयत्वेनैवाऽनित्यस्य सतः प्रामाण्यं व्यवस्थाप्यते । अतस्तद्बाह्यस्येतरस्य शब्दस्य सुतरामनित्यत्वमित्यायातम् । एतदेवोक्तेन द्रढयन्नाह - बुद्धिपूर्वेति । बुद्धिमान् पूर्वं कारणं 5 यस्याः सा तथा । इह समासे मन्तुरुक्तार्थः । बुद्धिमत्कर्तृप्रणीतो वेदोऽपीति तात्पर्यम् । तद्वचनाद् बुद्धिमद्वचनादाम्नायस्य वेदस्य प्रामाण्यम्, न त्वपौरुषेयत्वेन नित्यस्य सतः, विशिष्टपद- वाक्यरचनात्मकत्वात्तस्य । अत्र प्रयोगः - यत् पद-वाक्यरचनात्मकं तत् पौरुषेयं दृष्टम्, यथा मीमांसाभाष्यादि, तथाभूतं च वेदवाक्यम् । इति स्वभावहेतुः ।
5
तत्रैवेति कपालाख्ये [पृ०२९ पं०१] । हेतु - दृष्टान्तयोरुपादानं हेतु-दृष्टान्तोपादानम् 10 [पृ०२९ पं०२]।
मातृत्वेनेति [पृ०२९ पं०६ ] मातृत्वधर्मेण । कीदृशः पुनरत्र स्ववचनविरोध इत्याहविरोधश्चेति । तद्विपरीतेति अप्रसवधर्मिणीत्यर्थः ।
15
20
25
७९
साध्यधर्मलक्षणमिति विनाशित्वरूपम् [पृ०२९ पं०१०] । यत उक्तमित्यादि [पृ०२९पं०१३] । सांख्यमते हि पञ्चविंशतिस्तत्त्वानि भवन्ति । यथा-सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः, तत्र सत्त्वं सुखम्, रजश्च दुःखम्, तमश्च मोह इति । प्रकृतेश्च महान् 15 बुद्धिरुत्पद्यते । सा च गवादौ पुरो दृश्यमाने 'गौरेवायं नाश्वः, स्थाणुरेवायं न पुरुष:' इति विषयनिश्चयाध्यवसायरूपा । बुद्धेश्चाहंकार उत्पद्यते । स च ' अहं सुभगोऽहं दर्शनीयः ' इत्याद्यभिमानरूपः। अहंकाराच्च षोडशको गण उत्पद्यते । यथा - पञ्च बुद्धीन्द्रियाणि श्रोत्रत्वक्-चक्षु-र्जिह्वा-घ्राणलक्षणानि, स्वं स्वं विषयं बुध्यन्त इति कृत्वा । तथाहि - श्रोत्रं शब्दविषयं
Jain Education International
10
१ ° मतानुसारीणि C. ॥ २ "बुद्धिपूर्वा वाक्यकृतिर्वेदे । [वै०सू० ६/१/१] 'अग्निहोत्रं जुहुयात् 20 स्वर्गकाम:' [ ] इत्येवंभूता रचना भगवतो महेश्वरस्य बुद्धिपूर्वा सा ततः प्रमाणम्, आप्तप्रणीतत्वस्य सत्यताव्याप्तेः।'' इति चन्द्रानन्दविरचितटीकासहिते वैशेषिकसूत्रे ॥ "तद्वचनादाम्नायप्रामाण्यम् । [वै० सू० १ । १ । ३] तदिति हिरण्यगर्भपरामर्शः, हिरण्यं रेतोऽस्येति कृत्वा भगवान् महेश्वर एवोच्यते । आप्तेनोक् सत्यताव्याप्तत्वादिहाप्तेन हिरण्यगर्भेणोक्तत्वादाम्नायस्य प्रामाण्यं साध्यते । ईश्वरश्च साधितस्तनुभुवनादीनां कार्यतया घटादिवद् बुद्धिमत्कर्तृकत्वानुमानेन । ............ ..तद्वचनादाम्नायप्रामाण्यमिति" । १० । २९ । तनु- भुवनादिकार्यतया विज्ञातो भगवानीश्वरः, तत्प्रणयनाच्चाम्नायस्य सिद्धं प्रामाण्यम् । 'इति' शब्दः समाप्त्यर्थः । एवं द्रव्यादीनां साधर्म्यवैधर्म्य परिज्ञानाद् वैराग्यद्वारेण ज्ञानोत्पत्तेः 'आत्मा ज्ञातव्यः' इत्यादिवाक्येभ्यश्चोपासाक्रमेण विज्ञानावाप्तेर्निः श्रेयसाधिगमः" इति चन्द्रानन्दविरचितटीकासहिते वैशेषिकसूत्रे ॥
For Private & Personal Use Only
25
www.jainelibrary.org