________________
७८
पार्श्वदेवगणिविरचिता एवं विभिन्नप्रकरणेष्ववयवानां स्वरूपोपदर्शनेऽप्येकत्र तत्स्वरूपपरिज्ञानापेक्षया आहएषामित्यादि [पृ०२६ पं०५] । सपक्षेऽनुगमः साध्ययुक्तहेतोर्व्याप्तिः, तस्य वचनम् [पृ०२६ पं०७] । कोऽर्थः ? साध्यान्वितहेतुप्रदर्शनवाक्यम् । एतान्येव [पृ०२६ पं०८] पक्षादीनां
वचनानि । किमुच्यन्ते ? । अवयवाः साधनमित्यर्थः । कियन्तः ? त्रयः । त्र्यवयवं 5 साधनमित्यर्थः ।
इहापीति [पृ०२७ पं०१] साधनाभासेऽपि । साधयितुमिष्ट इत्यनेन 'साध्यत्वेनेप्सितः' इतीदं लक्षणं गृहीतम् । अपिना च प्रसिद्धो धर्मीत्यादि समस्तमपि लक्षणं संगृह्यते । अत एवाह- अपिशब्दात् तदन्यलक्षणयुक्तोऽपीति । तैर्विरुद्ध इति [पृ०२७ पं०४] तैः कर्तृभिर्विरुद्धः । यस्यासाविति [पृ०२७ पं०५] यस्य साधयितुमिष्टस्य
10 धर्मिणः ।
10
इहेत्यादि [पृ०२८ पं०१] । तेन प्रत्यक्षेण परिच्छिन्नो निश्चितस्तत्परिच्छिन्नः । शाले: कुडवः सेतिका शालिकुडवस्तस्य न्यायस्तद्वत् । यथा कुडवेन परिच्छिन्नः शालिरपि कुडव उच्यते, एवमिहापि प्रत्यक्षपरिच्छिन्नी धर्मोऽपि श्रावणत्वाख्यः प्रत्यक्ष उच्यते । मध्येत्यादि [पृ०२८ पं०२] प्रत्यक्षेण प्रसिद्धो धर्म: श्रावणत्वाख्यः प्रत्यक्षप्रसिद्धधर्मस्तेन विरुद्धः प्रत्यक्षविरुद्धः।
तत्रेति [पृ०२८ पं०६] तेषु प्रत्यक्षविरुद्धादिषु मध्ये अश्रावण इति श्रवणेन ग्राह्यः श्रावणः, न श्रावणोऽश्रावणः श्रोत्रविज्ञानाप्रतिभासी । अयमिति [पृ०२८ पं०७]
श्रोत्राग्राह्यत्वलक्षणो धर्मः शब्दस्य तत्रैव धर्मिणि शब्दाख्ये श्रावणत्वेन श्रवणविज्ञान20 प्रतिभासित्वेन विरुध्यते, श्रोत्रेन्द्रियविज्ञानेन शब्दस्य गृह्यमाणत्वादिति। 20
आहेत्यादि [पृ०२८ पं०८], श्रावणत्वमित्ययं भावप्रत्ययवानिर्देशः । भावश्च सत्ता । सा च सामान्यम्। तच्च प्रत्यक्षेण न गृह्यते किल । प्रत्यक्षस्य हि स्वलक्षणमेव विषयोऽनुमानस्य च सामान्यमिति प्रेर्यार्थः । आचार्यस्तु मन्यते-नात्र भावप्रत्ययः सत्तार्थं भावमाश्रित्योत्पन्नः किन्तु स्वभावार्थे । अत एवाह- भावप्रत्ययेन तत्स्वरूपेत्यादि [पृ०२८पं०१०] । तस्य श्रवणग्राह्यस्य शब्दस्य स्वरूपमात्रं स्वभावमात्रं तस्याभिधानात् 25 प्रतिपादनात् । श्रावणत्वस्य यत् सामान्यलक्षणत्वं प्रत्ययवशेनोद्भावितं तस्यानुपपत्तेरिति।
25
१ एवं भिन्न°C. ॥ २ °न्नोऽपि धर्म: C.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org