Book Title: Nyayapraveshakashastram
Author(s): Jambuvijay
Publisher: Motilal Banarasidas

View full book text
Previous | Next

Page 118
________________ 5 ___10 पार्श्वदेवगणिविरचिता अत्राहेत्यादि [पृ०३५ पं०१०] । तद्भावे हेतुसद्भावे भावित्वं संशयस्य तद्भावभावित्वम् । तस्याऽनुपपत्तिः, तस्याः कारणाद् नायं संशयहेतुरिति योगः । अनुपपत्तिरपि कुतः? ऐतदित्यादि [पृ०३५ पं०११] । उक्तं चेत्यादि [पृ०३५ पं०१२] । संशीतेः कारणं संशीतिकारणं नहि वर्तन्ते । अथ हेतोरुपन्यासात् पूर्वं सामान्यः संशयः । साध्यमसाधयता च हेतुना स एव निबिडः स्यादिति कथं न संशीतेः कारणमित्याहतद्भावस्याविशेषत [पृ०३५ पं०१३] इति, तद्भावस्येति संशयभावस्येत्यर्थः ।। नैतदेवमित्यादि [पृ०३५ पं०१५], किन्तु हेतावुपन्यस्ते यः संशयः स एव विवक्ष्यते। अथ मूलसंशयस्य विवक्षाऽभावे प्रयोगोऽपि तर्हि कथमित्याह तमन्तरेणापीति [पृ०३५पं०१५] । तमिति मूलसंदेहम् । यदि संशयाभावेऽपि क्रियते तर्हि प्रयोगेणापि किं कार्यमित्याहक्रियते चेति [पृ०३५ पं०१६] । प्रभृतिग्रहणादव्युत्पन्नमति-संशयितमतिकयोर्ग्रहणम् । न केवलं संशये सत्यात्मावबोधार्थं प्रयोगो हे तोः विधीयते इत्यप्यर्थः । यदि विपर्यस्तमत्याद्यवबोधार्थः क्रियते प्रयोगस्तर्हि चरितार्थत्वादस्यानैकान्तिकत्वम् । कथमित्याह ' - तत्रापि चेति [पृ०३५ पं०१६] । प्रयोगेऽपीत्यर्थः । ___ अथेदं कथं संशयहेतुर्येनानैकान्तिकतेत्याह-तत्रेदमित्यादि [पृ०३५ पं०२१] । स्वधर्मिणं शब्दाख्यम्। ननु कथमिदमुच्यते सपक्षविपक्षाभ्यां व्यावृत्तत्वाच्छ्रावणत्वं संशयहेतुरिति । यतः सामान्यविशेषसंज्ञितं नित्यं यच्छब्दत्वं तत् सपक्षस्तत्रेदं वर्तते गन्धत्वादिकं च विपक्षस्तस्माच्च व्यावृत्तमतः सपक्षवृत्तेर्विपक्षानिवृत्तेश्च सम्यग्घेतुरेवासाविति । अत्रोच्यते । इह मीमांसकेन प्रयोगोऽयं विधीयते । तद्भेदाश्च बहवः, तत्र केचन शब्दत्वसामान्यमिच्छन्ति 15 केचन नेति। तत्र ये नेच्छन्ति ते ह्येवमाहुः- न शब्दं विहायापरं सामान्यविशेषरूपं नाम 15 शब्दत्वं सामान्यमस्ति । एकशब्दग्रहणे शब्दान्तरानुसंधानाभावात् । यत्र हि सामान्यमस्ति तत्रैकग्रहणेऽपरस्यानुसंधानं दृष्टम्, यथा शाबलेयग्रहणे बाहुलेयस्य । शब्दे चैकस्मिन् गृह्यमाणे न शब्दान्तरानुसंधानम् । किन्तु शार्गोऽयं शब्दो वैणवोऽयमित्यादि विभिन्नो विभिन्नो व्यावृत्त एव प्रत्ययो जायते । तन्न शब्दे शब्दत्वसंभवः। शब्दत्वमिति भावप्रत्ययेनापि च शब्दस्वरूपमात्रस्यैवाभिधानम् । अतः शब्दाख्यं धर्मिणं विहायान्यत्रास्यावर्तनात् पक्षधर्मतैवाऽस्य केवलम्, न शेषं रूपद्वयम् । अतस्तन्मतेन संशयहेतुरेवायम् । ये तु शब्दत्वसामान्यमिच्छन्ति तन्मतेन तु सम्यग्घेतुरेवायम्, रूपत्रयोपपत्तेः, तथा च व्यस्तयोः सम्यग्घेतुत्वा [ पृ. ३८ पं० ५] दिति वक्ष्यति । अनेन हि श्रावणत्वाख्यस्यापि सम्यग्घेतुत्वमावेदयिष्यतीति स्थितम् । १ एतदित्याह J. || २ संदेहे J. P. ॥ ३ हेतुप्रयोगो हेतोः J. ॥ ४ अयं प्रयोगो c . | Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192