Book Title: Nyayapraveshakashastram
Author(s): Jambuvijay
Publisher: Motilal Banarasidas

View full book text
Previous | Next

Page 110
________________ ८२ पार्श्वदेवगणिविरचिता कश्चिदाह- ननु बौद्धमते पक्षवचनमेव नोच्चार्यते तत् कथमयं बौद्धस्य पक्षाभास:? । सत्यमेतद्, बालव्युत्पत्त्यर्थमुदाहरणदर्शनतः शास्त्र एवेदमभ्युपगम्यते न वादे। अनुपयोगात्। न खलु वादकाले शिष्या व्युत्पाद्यन्ते । व्युत्पन्नप्रज्ञानामेव वादेऽधिकारात् । ततो वादे हेतुपुर:सर एव प्रयोगः कार्यः । 5 आहे त्यादि [पृ०२९ पं०१६] । विप्रतिपत्तौ विवादे इष्टार्थप्रसाधनार्थम्। 5 विप्रतिपत्तिरेव चेति नित्यानित्यादिवस्तुधर्मविषया एतद्दोषकी पक्षाभासदोषक: इति कुतोऽनुमानं [पृ०२९ पं०१७] सम्भवति, किं तर्हि ? अनुमानं न कुत्रापि कर्तुं युक्तमित्यर्थः । तद्दोषकर्तृ पक्षाभासदोषकारि । युक्तिविरुद्धत्वादिति युक्त्या निराकृतत्वात् पक्षाभासत्वस्य। [पृ०२९ पं०१८] तथाहीत्यादिनैनमेवार्थं भावयति । दृष्टान्तसाधने कृते इति 10 दृष्टान्तस्य घटादे र नित्यत्वसिद्धौ कृतायामित्यर्थ: । दृष्टान्तसिद्धिश्च प्रकृते 10 सत्कार्यवादनिराकरणतो विधेया। तथाहि - शक्तानां कारणानां कार्योत्पत्तौ व्यापाराच्छक्तिरूपतया कार्यस्यावस्थानमिति सांख्याः। तदसंगतम् । कारणे कार्यस्य पूर्वमनुपलम्भात् । अथानभिव्यक्तेरनुपलम्भ इति चेत् सद्भावे किं प्रमाणम् ?। उत्पत्तिरिति चेत् । न । विद्यमानस्योत्पत्तेरयोगात् । प्रागेव तस्य विद्यमानत्वात् । अथाविद्यमानस्योत्पत्तौ 15 यद्यन्वयी स्यादिति । अयमदोषः । कस्मात् एकान्ततानभ्युपगमात् । तदेतत् त्रैलोक्यं व्यक्तेरपैति नित्यत्वप्रतिषेधात्। 15 अपेतमप्यस्ति विनाशप्रतिषेधात् । संसर्गाच्चास्य सौक्ष्म्यम्, सौक्ष्म्याच्चानुपलब्धिरिति। ___लक्षणपरिणामो धर्मोऽध्वसु वर्तमानोऽतीतोऽतीतलक्षणयुक्तोऽनागतवर्तमानाभ्यां लक्षणाभ्यामवियुक्तः । तथाऽनागतोऽनागतलक्षणयुक्तो वर्तमानातीताभ्यां लक्षणाभ्यामवियुक्तः । तथा वर्तमानो वर्तमानलक्षणयुक्तोऽतीतानागताभ्यां लक्षणाभ्यामवियुक्त इति । यथा पुरुष एकस्यां स्त्रियां रक्तो न शेषासु विरक्तो भवतीति।" इति पातञ्जलयोगदर्शनस्य व्यासभाष्ये तृतीये विभूतिपादे। "तदेतत् त्रैलोक्यं न तु द्रव्यमानं व्यक्तेरर्थक्रियाकारिणो रूपादपैति। कस्मान्नित्यत्वप्रतिषेधात् प्रमाणेन । यदि हि घटो व्यक्ते पेयात् कपालशर्कराचूर्णादिष्ववस्थास्वपि व्यक्तो घट इति पूर्ववदुपलब्ध्यर्थक्रिये कुर्यात् तस्मादनित्यं त्रैलोक्यम् । अस्तु तमु नित्यमेवोपलब्ध्यर्थक्रियारहि तत्वेन गगनारविन्दवदतितुच्छत्वादित्यत आह-अपेतमप्यस्ति,नात्यन्ततुच्छता येनैकान्ततोऽनित्यं स्यादित्यर्थः । कस्माद्विनाशप्रतिषेधात् प्रमाणेन । तथाहि-यत्तुच्छं न तत्कदाचिदप्युपलब्ध्यर्थक्रिये करोति ? यथा गगनारविन्दम् । करोति चैतत् त्रैलोक्यं कदाचिदुपलब्ध्यर्थक्रिये इति । तथोत्पत्तिमद्रव्यत्वधर्मलक्षणावस्थायोगित्वादयोऽप्यत्यन्ततुच्छगगननलिननरविषाणादिव्यावृत्ताः सत्त्वहेतव उदाहार्याः । तथा च धर्मी नात्यन्तं नित्यो येन चितिशक्तिवत् कूटस्थनित्यः स्यात्, किन्तु कथंचिन्नित्यः। तथा च परिणामीति सिद्धम् । एतेन मृत्पिण्डाद्यवस्थासु कार्याणां घटादीनामनागतानां सत्त्वं वेदितव्यम् । स्यादेतत् । अपेतमपि चेदस्ति कस्मात्पूर्ववन्नोपलभ्यत इत्यत आह-संसर्गात् 25 स्वकारणलयात् सौक्ष्म्यं दर्शनानहत्वं ततश्चानुपलब्धिरिति" । इति वाचस्पतिमिश्रविरचितायां टीकायां तत्त्ववैशारद्याम् 25 १ युज्यत इत्यर्थः c.॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192