Book Title: Nyayapraveshakashastram
Author(s): Jambuvijay
Publisher: Motilal Banarasidas

View full book text
Previous | Next

Page 113
________________ न्यायप्रवेशकवृत्तिपञ्जिका। आत्ममन:संयोग इति समसनीयम् । आत्मनि सुखादीनामुत्पत्तौ स्रक्-चन्दनादयो निमित्तकारणं भवन्तीति । सामग्र्या एवेति [पृ०३० पं०११] । यथा वैशेषिकस्य कारणत्रयात् कार्यस्योत्पत्तिरिष्यते एवं न बौद्धस्य मते। किन्तु विज्ञानसंततौ सुखादयः स्रक्चन्दनादिसामग्रीवशादुत्पद्यन्ते इत्येतदेवाभ्युपगम्यते इति भावः । प्रसिध्यति स्म प्रसिद्धोऽकर्मक: कर्तरि क्तः । यस्मिन्निति पक्षाभासे [पृ०३०पं०१३]। । अथ कथमेषां पक्षाभासत्वम् ? किमेकेन स्वरूपेणोतश्विद् भिन्नेन इत्याहएषामित्यादि [पृ०३० पं०१५] । स्वं चेत्यादि [पृ०३० पं०१७] । धर्मस्य श्रावणत्वादे: स्वरूपं श्रवणग्राह्यत्वादिकं धर्मस्वरूपम् । आत्मनोऽनतिक्रमेण यथात्मा, तस्य भावो याथात्म्यमवैपरीत्यम् । धर्मस्य याथात्म्यमिति विग्रहः। निराक्रियतेऽनेनेति अश्रावणत्वादिना श्रावणत्वादिकं प्रसिद्धम् । 10 यद्वा निराकरोत्यश्रावणत्वादिकं कर्चिति निराकरणम्। प्रतिषेधतीति प्रतिषेधनं निषेधकमित्यर्थः। 10 धर्मयाथात्म्यप्रतिषेधद्वारेणेति, अश्रावणत्वादेः पक्षाभासत्वमिति शेषः । अथ किमेभिः प्रसिद्धं निराक्रियते येन पक्षाभासत्वमित्याह- प्रतिषिध्यते चेति [पृ०३०५०२१] । धर्मयाथात्म्यं श्रावणत्वादिकम्। परं न तच्छक्यते निराकर्तुं प्रत्यक्षादिप्रसिद्धधर्मयाथात्म्येनैव तस्याश्रावणत्वादेर्बाध्यमानत्वात्। तत्रेति [पृ०३१ पं०२] एवं सति प्रतिपाद्यतेऽवबोध्यते परोऽनेन वचनेन कृत्वेति । प्रतिपादनं वचनमुच्यते । प्रत्याय्यते परोऽनेनेति प्रत्यायनम् । परस्य प्रत्यायनमिति समासः। अथ किं दृष्टान्तादावप्युपन्यस्ते प्रतिपादनमेषु त्रिषु न संभवति येन पक्षाभासत्वमित्याहन चेति [पृ०३१ पं०४] । वादिप्रतिवादिनोरुभयोरपि श्रावणः शब्द इत्यत्रार्थेऽविप्रतिपत्तेश्च साधनवैफल्यम् [पृ०३१ पं०६] । अथ किमत्र तात्पर्यं स्थितमित्याह - ततश्चेत्यादि [पृ०३१ पं०६] । हेतुवदाभासन्त इति [पृ०३१ पं०१२] । हेतुस्थाने प्रयुक्तत्वात् साध्यासाधनाच्चेत्यर्थः। - संदिग्धः संशयित उच्यते । तत्रेति [पृ०३१ पं०२१] । पूर्ववदिति [पृ०३१ पं०२३] । तत्र तेष्वसिद्धादिषु चतुर्पु मध्ये उभयासिद्धत्वगुणेनाऽऽद्यो निर्धार्यते ।। कृतकत्वादित्यादि [पृ०३२ पं०८,९] । मीमांसकं भट्टम् । कापिलं वेति सांख्यम्। तथाहीत्यादि [पृ०३२ पं०१०] । अयमर्थः- यथा घटादयः प्रदीपेन तमसि स्थिताः सन्त 25 १ दावुपन्यस्ते c. ॥ २ स्थिता अभिव्यज्यन्ते सन्त एव, एवं c.॥ 15 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192