Book Title: Nyayapraveshakashastram
Author(s): Jambuvijay
Publisher: Motilal Banarasidas

View full book text
Previous | Next

Page 67
________________ दिङ्नागाचार्यप्रणीतं न्यायप्रवेशकशास्त्रम्। ३९ तंत्र धर्मेत्यादि। तत्र इति पूर्ववत् । धर्मः पर्याय इत्यनर्थान्तरम् , तस्य स्वरूपमसाधारणम् आत्मलक्षणं धर्मस्वरूपम्, तस्य विपरीतसाधन इति समासः । एवं शेषेष्वपि द्रष्टव्यमिति । अधुनोदाहरणमाह- यथा नित्यः शब्दः कृतकत्वात् इत्यादि। अत्र धर्मस्वरूपं नित्यत्वम् । अयं च हेतुस्तद्विपरीतमनित्यत्वं साधयति 5 तेनैवाविनाभूतत्वात् । तथा चाह- विपक्ष एव भावाद् विरुद्धः । आह- 5 अयमपक्षधर्मत्वादसिद्धान्न विशिष्यते, कथं विरुद्ध इति ? अत्रोच्यते, नावश्यं पक्षधर्मस्यैव विरुद्धता, अन्यथाप्याचार्यप्रवृत्तेः अधिकृतप्रयोगज्ञापकात्। न चायमसिद्धान्न विशिष्यते इति विपर्ययसाधकत्वेनाऽविरुद्धः । एतत्प्रर्धानत्वा च्चोपन्यासस्य । अन्यथाऽनैकान्तिकस्याप्यसिद्धत्वप्रसङ्गः । नित्यत्वादिधिकत्वेन 10 प्रमेयत्वादीनामपि असिद्धत्वात् । इत्यलं प्रसङ्गेन । गमनिकामात्रमेतत् । 10 सू० [१३], धर्मविशेषविपरीतसाधनो यथापरार्थाश्चक्षुरादयः संघातत्वाच्छयनासनाद्यङ्गवदिति । अयं हेतुर्यथा पारार्थ्यं चक्षुरादीनां साधयति तथा संहतत्वमपि परस्य साध्यधर्मविशेषविपरीतं साधयति। उभयत्राव्यभिचारात् ।। 15 धर्मिस्वरूपविपरीतसाधनो यथा - न द्रव्यम् न कर्म न गुणो 15 भावः इति एकद्रव्यवत्त्वात् गुणकर्मसु च भावात् सामान्यविशेषवदिति । अयं हि हेतुर्यथा द्रव्यादिप्रतिषेधं भावस्य साधयति तथा भावस्य अभावत्वमपि साधयति, उभयत्राव्यभिचारात् ॥ धर्मिविशेषविपरीतसाधनो यथा-अयमेव हेतुरस्मिन्नेव पूर्व20 पक्षेऽस्यैव धर्मिणो यो विशेषः सत्प्रत्ययकर्तृत्वं तद्विपरीतमसत्प्रत्यय- 20 कर्तृत्वमपि द्रव्यादिप्रतिषेधवत् साधयति । उभयत्राव्यभिचारात् । १. तत्र धर्मस्वरूपविपरीतसाधनो यथा । तत्रेति पूर्ववत् । P२, A ।। २. 'णात्मकलक्षणं J२ ॥ ३. कृतकत्वात् प्रयत्नानन्तरीयकत्वाद्वा इत्ययं हेतुर्विपक्ष एव भावाद् विरुद्धः । अत्र धर्म P२, A॥ ४. 'त्यत्वं च साध'J२॥ ५. अनित्यत्वेनाविनाभूतत्वात् कृतकस्य टि० J२॥ ६. कृतकत्वाख्यो हेतुः टि०॥२॥ अपक्षधर्मस्यापि भवति विरुद्धता टि०४२॥ ८ 'साधकत्वेना( न P३) सिद्धेः R विना। 25 विरुद्धस्येति टि०७२॥ ९. असिद्धस्येति टि०७२ || १० विपर्ययसाधकत्वात् टि० २॥ ११ 'साधनत्वेन J२, V, R.॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192