Book Title: Nyayapraveshakashastram
Author(s): Jambuvijay
Publisher: Motilal Banarasidas

View full book text
Previous | Next

Page 84
________________ * पार्श्वदेवगणिविरचिता न्यायप्रवेशकवृत्तिपञ्जिका । ॥ ॐ नमोऽर्हे भ्यः ॥ ॥ ॐ नमः सरस्वत्यै ॥ दुर्वारमारकरिकुम्भतटप्रभेदकण्ठीरवं जिनपतिं वरदं प्रणम्य । न्यायप्रवेशर्कमिति प्रथिते सुशास्त्रे प्रारभ्यते तनुधियाऽपि हि पञ्जिकेयम् ॥ १॥ येऽवज्ञां मयि विदधुः किञ्चन जानन्ति तानपास्यैषः ।। मत्तोऽपि जडमतीनामुपकाराय प्रयासो मे ॥ २ ॥ इह हि शिष्टानामयं समाचारो यदुत शिष्टाः क्वचिदिष्टे वस्तुनि प्रवृत्तिमभिलषन्तो विघ्नविनायकोपशान्तये इष्टदेवतानमस्कारपूर्वकं प्रवर्तन्ते, अतोऽयमपि हरिभद्राख्यः सूरिन 10 हि न शिष्ट इति न्यायप्रवेशकाख्यशास्त्रविवरणकरणे प्रवर्तमान इष्टदेवतानमस्कारार्थं 10 श्रोतृजनप्रवृत्तये शास्त्रस्याभिधेयादिप्रदर्शनार्थं च श्लोकद्वयं चकार सम्यगित्यादि [पृ०१३ पं०९] । व्याख्या- रचयामि विदधामि करोमीति यावत् । अहमित्यात्मनिर्देशे । ___* अत्रेदमादाववधे यम्-अस्माकं सविधे न्यायप्रवेशक पञ्जिकाया: तालपत्रोपरि लिखितमादर्शत्रयमस्ति-एक: खंभातनगरे श्री शान्तिनाथतालपत्रीयग्रन्थभाण्डागारे विद्यते, अस्य C इति संज्ञा। अपरो जेसलमेरुदुर्गे श्रीजिनभद्रसूरिस्थापिते ग्रन्थभाण्डागारे विद्यते, अस्य J इति संज्ञा। 15 अन्यः पाटणनगरे खेतरवसीपाडामध्येऽस्ति । अस्य P इति संज्ञा । एतेषां स्वरूपम्- C = 15 Catalogue of palm-leaf Jain manuscripts in Santinātha Jaina Bhandara, Cambay अनुसारेण अस्य ग्रन्थाङ्क: २७० । पत्राणि १-१९४॥ J = जेसलमेरीयसूचिपत्रानुसारेण अस्य ग्रन्थाङ्क: ३६४ । पत्राणि २४५-३४७॥ P = पत्रसंख्या १-११९, तत्र १,४,६२-६३-६४, ६७,७०,९० इति पत्राणि न सन्ति ।। अत्रापि द्विविधा पाठपरंपरा प्रतीयते । एते च पाठभेदाः टिप्पणेषु तत्र तत्र दर्शिता अस्माभिः । वडोदरा Oriental Institute, Baroda त: 1930 A.D वर्षे प्रकाशितस्य पञ्जिकाग्रन्थस्य P इति संज्ञा विहितास्माभिः। C. J. मध्ये विद्यमानाः पाठभेदाः सुगृहीतनामधेयैः स्व. मुनिराजश्रीपुण्यविजयजीमहाभागैः महता . महता परिश्रमेण P मध्ये लिखिताः । तदनुसारेणैव न्यायप्रवेशकवृत्तिपञ्जिकायाः संशोधनं सम्पादनं . ८० चात्र विहितमस्माभिः । अतः पू. मु. श्री पुण्यविजयजीमहाराजेभ्यो भूयांसो धन्यवादा वितीर्यन्ते । १. ॐ नमोऽर्थेभ्य: c । ॐ नमः सरस्वत्यै J. ॥ २. °क इति J. ॥ ३. °मयमाचारो C.॥ ४. यत् इत्यर्थः -टि०C. ॥ ५. वस्तुनि नास्ति C. ॥ ६ ख्यसूरि° C.॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192