________________
*
पार्श्वदेवगणिविरचिता न्यायप्रवेशकवृत्तिपञ्जिका ।
॥ ॐ नमोऽर्हे भ्यः ॥ ॥ ॐ नमः सरस्वत्यै ॥ दुर्वारमारकरिकुम्भतटप्रभेदकण्ठीरवं जिनपतिं वरदं प्रणम्य । न्यायप्रवेशर्कमिति प्रथिते सुशास्त्रे प्रारभ्यते तनुधियाऽपि हि पञ्जिकेयम् ॥ १॥ येऽवज्ञां मयि विदधुः किञ्चन जानन्ति तानपास्यैषः ।। मत्तोऽपि जडमतीनामुपकाराय प्रयासो मे ॥ २ ॥
इह हि शिष्टानामयं समाचारो यदुत शिष्टाः क्वचिदिष्टे वस्तुनि प्रवृत्तिमभिलषन्तो विघ्नविनायकोपशान्तये इष्टदेवतानमस्कारपूर्वकं प्रवर्तन्ते, अतोऽयमपि हरिभद्राख्यः सूरिन 10 हि न शिष्ट इति न्यायप्रवेशकाख्यशास्त्रविवरणकरणे प्रवर्तमान इष्टदेवतानमस्कारार्थं 10
श्रोतृजनप्रवृत्तये शास्त्रस्याभिधेयादिप्रदर्शनार्थं च श्लोकद्वयं चकार सम्यगित्यादि [पृ०१३ पं०९] । व्याख्या- रचयामि विदधामि करोमीति यावत् । अहमित्यात्मनिर्देशे । ___* अत्रेदमादाववधे यम्-अस्माकं सविधे न्यायप्रवेशक पञ्जिकाया: तालपत्रोपरि लिखितमादर्शत्रयमस्ति-एक: खंभातनगरे श्री शान्तिनाथतालपत्रीयग्रन्थभाण्डागारे विद्यते, अस्य C
इति संज्ञा। अपरो जेसलमेरुदुर्गे श्रीजिनभद्रसूरिस्थापिते ग्रन्थभाण्डागारे विद्यते, अस्य J इति संज्ञा। 15 अन्यः पाटणनगरे खेतरवसीपाडामध्येऽस्ति । अस्य P इति संज्ञा । एतेषां स्वरूपम्- C = 15
Catalogue of palm-leaf Jain manuscripts in Santinātha Jaina Bhandara, Cambay अनुसारेण अस्य ग्रन्थाङ्क: २७० । पत्राणि १-१९४॥ J = जेसलमेरीयसूचिपत्रानुसारेण अस्य ग्रन्थाङ्क: ३६४ । पत्राणि २४५-३४७॥ P = पत्रसंख्या १-११९, तत्र १,४,६२-६३-६४, ६७,७०,९० इति पत्राणि न सन्ति ।। अत्रापि द्विविधा पाठपरंपरा प्रतीयते । एते च पाठभेदाः टिप्पणेषु तत्र तत्र दर्शिता अस्माभिः । वडोदरा Oriental Institute, Baroda त: 1930 A.D वर्षे प्रकाशितस्य पञ्जिकाग्रन्थस्य P इति संज्ञा विहितास्माभिः।
C. J. मध्ये विद्यमानाः पाठभेदाः सुगृहीतनामधेयैः स्व. मुनिराजश्रीपुण्यविजयजीमहाभागैः महता . महता परिश्रमेण P मध्ये लिखिताः । तदनुसारेणैव न्यायप्रवेशकवृत्तिपञ्जिकायाः संशोधनं सम्पादनं . ८० चात्र विहितमस्माभिः । अतः पू. मु. श्री पुण्यविजयजीमहाराजेभ्यो भूयांसो धन्यवादा वितीर्यन्ते ।
१. ॐ नमोऽर्थेभ्य: c । ॐ नमः सरस्वत्यै J. ॥ २. °क इति J. ॥ ३. °मयमाचारो C.॥ ४. यत् इत्यर्थः -टि०C. ॥ ५. वस्तुनि नास्ति C. ॥ ६ ख्यसूरि° C.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org