________________
न्यायप्रवेशक वृत्तिपञ्जिका ।
५७
कामित्याह – न्यायप्रवेशकव्याख्याम् । तत्र नितरामीयन्ते गम्यन्ते गत्यर्थानां ज्ञानार्थत्वात् ज्ञायन्तेऽर्था अनित्यत्वास्तित्वादयो धर्मा अनेनेति न्यायः तर्कमार्गः । इणो धातोर्निपूर्वस्य पेरिन्योर्नीणोर्द्यूताभ्रेषयोः [ पा० ३/३/३७] इति वचनात् करणे घञ् । न्याये प्रवेशयति शिष्यं तदेभिज्ञं करोति यच्छास्त्रं श्रूयमाणं तन्यायप्रवेशकम्, तस्य । व्याख्या, विशेषेणाख्यायते प्रकाश्यते सूत्रमनयेति व्याख्या वृत्तिग्रन्थः, यद्वा व्याख्यानं व्याख्या विवरणमित्यर्थः, 5 ताम् । किंविशिष्टाम् ? स्फुटार्थाम् प्रकटाभिधेयाम् । किं कृत्वा ? प्रणिपत्य मनोवाक्कायैर्नमस्कृत्य [पृ०१३ पं. ९ ] । कम् ? जिनेश्वरम् । रागादिजेतृत्वाज्जिनः । ईष्टे नरामरादिविहितं पूजादिकमैश्वर्यमनुभवतीत्येवंशील ईश्वरः । ततो जिनश्चासावीश्वरश्च जिनेश्वरः, तम् । कीदृक्षम् ? वक्तारं प्रतिपादकम् । कस्य ? न्यायस्य । कथम् ? सम्यक् यथावस्थितस्वरूपेण । यद्वा सम्यक् चासौ न्यायश्च सम्यग्न्याय इति समस्तं द्रष्टव्यम् । तदनेन जैनमतानुसारिणामभिप्रायेण चत्वारोऽतिशया वाच्याः । यथा अपायापगमातिशयः 10 ज्ञानातिशयः पूजातिशयो वचनातिशयश्चेति । तत्र सम्यगित्यनेन ज्ञानातिशयः सूचितः सम्यग्ज्ञानं 10 विना यथावस्थितवस्तुरूपोपलम्भानुपपत्तेः । वक्तारमित्यनेन च वचनातिशयोऽभिहितः, वक्तृत्त्वं विनाऽशेषवस्तूपलम्भेऽपि वस्तुतत्त्वप्रतिपादनानुपपत्तेः । जिन इत्यनेन त्वपायापगमातिशयः, रागाद्युच्छे दनिबन्धनतया जिनशब्दप्रवृत्तेः । ईश्वरमित्यनेन तु पूजातिशय:, सम्यग्ज्ञानाद्यतिशयोपेतस्यामरादिपूज्यत्वसम्भवात् ।
सौगतमतानुसारेण तु स्वार्थ- परार्थसम्पत्ती सोपाये वाच्ये । तत्राऽऽद्यपादेन परार्थसम्पत्तिरुक्ता १ । जिन इत्यनेन च स्वार्थसम्पत्त्युपायः २ । ईश्वरमित्यनेन च स्वार्थसम्पत्तिः ३ । जिनेश्वरमिति समुदितेन च परार्थसम्पत्त्युपाय ४ इति ।
15
20
25
एतेन च श्लोकार्थेन मड्गलमभिहितम् । न्यायप्रवेशकव्याख्यामिति अभिधेयम् । अनेन च व्याख्यान - व्याख्येयलक्षणः सम्बन्धोऽप्यभिहितः । द्वितीयश्लोकेन तु प्रयोजनं प्रदर्शयिष्यतीति ।
5
20
नन्वस्य पूर्वसूरिभिरपि व्याख्याया विरचितत्वात् किं भवतो व्याख्याविरचनप्रयासेन ? इति परवचनमनुमन्यमान आत्मनो वृत्तिकरणे प्रयोजनं च प्रदर्शयन्नाह - रचितामपीत्यादि [पृ०१३ पं०११] । सुगमः । नवरं सती शोभना विद्यमाना वा प्रज्ञा येषां ते तथा, तैः 1
Jain Education International
15
१. " ३२०९ परिन्योर्नीणोर्द्यूताभ्रेषयोः [पा० ३/३/३७], परिपूर्वान्नयतेः निपूर्वादिणश्च घञ् 25 स्यात् क्रमेण द्यूतेऽभ्रेषे च विषये, परिणायेन शारान् हन्ति, समन्तान्नयनेनेत्यर्थः । एषोऽत्र न्यायः, उचितमित्यर्थः । द्यूताभ्रेषयोः किम् ? परिणयो विवाहः । न्ययो न्यासः ।" पा० सिद्धान्तकौमुदी ॥ २. तदभिज्ञं करोति शिष्यं J.P. ॥ तु स्वा° C. ॥ ४ ° जनं दर्श° C. ॥
३.
For Private & Personal Use Only
www.jainelibrary.org