________________
५८
पार्श्वदेवगणिविरचिता अहं तु रचयामि समासतः । कीदृक्षः सन् ? असत्प्रज्ञोऽपि । अनेनात्मन औद्धत्यं परिहरति । कया कृत्वा? इत्याह-सङ्क्षेपणं सङ्क्षिप्तम्, सङ्क्षिप्ते रुचिः अभिलाषो येषां ते च ते सत्त्वाश्च तेषामनुकम्पा करुणा, तया ।।
तत्रेति [पृ०१४ पं०१] न्यायप्रवेशकाख्ये शास्त्रे ।
आहेत्यादि । एवं मन्यते पर:- अभिधेयाद्यभिधानार्थमयमादिवाक्यतया पठ्यते; न . चानेन अभिधेयादीनि अभिधातुं शक्यन्ते, शब्दस्य बाह्येऽर्थे प्रतिबन्धासंभवेनाऽभिधेयाद्यभिधाने प्रामाण्यायोगात् । अतोऽभिधेयाद्यभिधानार्थं न युक्तोऽस्योपन्यास इति ।
उच्यत इत्यादि [पृ०१४ पं०२] । आचार्यः पुनरेवं मन्यते -अभिधेयादीनामादिवाक्यस्याप्रमाणकत्वादनिश्चितावपि संशय उत्पद्यते श्लोकश्रवणे सति, संशयाच्च प्रवृत्तिर्भवतीत्यतोऽभिधेयादिविषयसंशयोत्पादनार्थं श्लोक उच्यते । यतोऽर्थसंशयोऽपि प्रवृत्त्यङ्गं . दृष्टमनर्थसंशयोऽपि निवृत्त्यङ्गमिति धैर्मोत्तरो मन्यते । अतः संमुग्धतया तदनुसारेणाव्युत्पन्नमतीनाश्रित्योत्तरमुक्तम् । अथवाऽनभिज्ञस्य प्रश्नोऽयम् । वैयाकरणादिजनप्रसिद्धं चोत्तरमिति विज्ञेयम् । तथा च तन्मतम् - सर्वस्यैव हि शास्त्रस्य [ मी० श्लो॰ वा १२ ] इत्यादि, सिद्धार्थ सिद्धसंबन्धम् [ मी० श्लो० वा. १७] इत्यादीति च ।
इहेति [पृ०१४ पं०२] जगति । न क्वचिदिति कार्ये । प्रयोजनादीति । आदिशब्दा15 दभिधेय-संबन्धपरिग्रहः । प्रवृत्त्यै इदं प्रवृत्त्यर्थम् ।
15 ___ अर्चटाभिप्रायेण श्लोकोपन्यासस्य प्रयोजनमाह-शास्त्रार्थेति [पृ०१३ पं०३] ।
१. पठ्यते । अभिधेयाद्यभिधाने च प्रयोजनं न प्रेक्षामहे । यतो यः प्रामाणिकः स प्रमाणात् प्रवर्तते । न चादिवाक्यप्रभवमभिधेयादिज्ञानं प्रमाणम्, अनक्षजत्वेनाध्यक्षत्वायोगात् । नाप्यनुमानम्, लिङ्गलिङ्गिनोरविनाभावनिश्चयेन तत्प्रवृत्तेरभ्युपगमात्, न चाभिधेयाद्यभिधाने किञ्चन लिङ्गमुत्पश्यामः। न चादिवाक्यं स्वत
एवार्थमभिदधच्छब्दरूपत्वाच्छाब्दं प्रमाणमिति वाच्यम्, शब्दस्य बाह्येऽर्थे प्रतिबन्धासम्भवेन प्रामाण्यायोगात्। C.P.॥ 20 २. प्रामाणिकत्वा° C. ॥ ३. "ननु च प्रकरणश्रवणात् प्रागुक्तान्याभिधेयादीनि प्रमाणाभावात् प्रेक्षावद्भिर्न गृह्यन्ते, तत् 20
किमेतैरारम्भप्रदेशे उक्तैः? सत्यम्, अश्रुते प्रकरणे कथितान्यपि न निश्चीयन्ते, उक्तेषु त्वप्रमाणकेषु अपि अभिधेयादिषु संशय उत्पद्यते । संशयाच्च प्रवर्तन्ते। अर्थसंशयोऽपि हि प्रवृत्त्यङ्गं प्रेक्षावताम्, अनर्थसंशयो निवृत्त्यङ्गम्। अत एव शास्त्रकारेणैव पूर्वं सम्बन्धादीनि युज्यन्ते वक्तुम्" - इति धर्मोत्तरविरचितायां न्यायबिन्दुटीकायाम् ॥ ४. सर्वस्यैव हि शास्त्रस्य कर्मणो वापि कस्यचित् । यावत् प्रयोजनं नोक्तं तावत् तत् केन गृह्यते ॥
१२॥........सिद्धार्थं ज्ञातसम्बन्धं श्रोतुं श्रोता प्रवर्तते । शास्त्रादौ तेन वक्तव्यः सम्बन्धः सप्रयोजनः ॥ 25 १७ ॥ इति मीमांसाश्लोकवार्तिके ॥ ५ "परोक्षेत्यादिना प्रकरणारम्भे प्रयोजनमाह । तच्च 25
श्रोतृजनप्रवृत्त्यर्थमिति केचित् । तदुक्तम्-सर्वस्यैव हि शास्त्रस्य कर्मणो वाऽपि कस्यचित्। यावत् प्रयोजनं नोक्तं तावत् तत् केन गृह्यताम्॥ [मी०श्लो०वा०सू०१ श्लो०१२]इति। तदयुक्तम् । यतोऽस्य प्रकरणस्येदं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org