________________
न्यायप्रवेशक वृत्तिपञ्जिका ।
५९
•
शास्त्रस्यार्थः शास्त्रार्थः तस्य कथनम्, तस्य काल:, तस्मिन्नुपस्थितः प्रगुणीभूतो योऽसौ परस्तेन संभाव्यमाना येऽनुपन्यासहेतवस्तेषां निराकरणार्थम् । अर्चटभट्टो ह्येवं मन्यते - शास्त्रं दृष्ट्वा शिष्यस्य शास्त्रश्रवणात् प्रागप्येवं संशयो जायते यदुत किमप्यत्र निरूपयिष्यते इति अतः संशयजननोर्थमिदमादिवाक्यमयुक्तम्, किन्तु शास्त्रानुपन्यासहेतुभिः प्रत्यवतिष्ठमानस्य परस्य तदुपन्यस्तहेत्वसिद्धतोद्भावंनार्थमिदमिति । अनुपन्यासहेतूनेव दर्शयति - तथा चेत्यादिना [ पृ०१४ पं०४] । नारब्धव्यमित्यादि । परसंविदे आत्मसंविदे 5 इति प्रयोजनसद्भावे हीत्थं स्वभावहेतुप्रयोगः प्रवर्तते, यथा - सप्रयोजनमिदम्, आरम्भणीयत्वात्, तदन्यशिष्टप्रयुक्तघटादिसाधुशब्दवत् । प्रयोजनाभावे च व्यापकानुपलब्ध्या प्रयोगः स्यात् । तत्र निषेध्यस्य यद् व्यापकं तस्यानुपलब्धिर्व्यापकानुपलब्धिरुच्यते । तथाहि — अत्रारम्भणीयत्वं निषेध्यम्, तस्य व्यापकं सप्रयोजनत्वम्, तस्यानुपलब्धिः । तदत्रारम्भणीयत्वं व्याप्यं प्रयोजनवत्तया व्यापिकया व्याप्तम् । ततः प्रयोजनवत्ता व्यापिका निवर्तमानाऽऽरम्भणीयत्वं व्याप्यमादाय निवर्तते । ततोऽयं वृत्तिकृत्प्रदर्शितो व्यापकानुपलब्ध्याख्यः प्रयोगः स्यात् । 10 तथेत्यादि [पृ०१४ पं०६ ] | नारब्धव्यमिदमितीयमेव प्रतिज्ञा निरभिधेयत्वाऽसंबन्धत्वहेत्वोरपि द्रष्टव्या । परीक्ष्यते वस्त्वनयेति परीक्षा शास्त्रमुच्यते । काकानां दन्तास्तेषां परीक्षा, तद्वत् । काकानां हि दन्ता एव न विद्यन्ते इत्यभिधेयाभावात्तद्वर्णनस्य श्वेतवर्तुलत्वादिकस्याभिधायकं शास्त्रं निरभिधेयमुच्यते । एवमिहापि श्लोकाभावे साधनादीनामुपन्यासाभावात्तदङ्गानां पक्षादीनां भणनं निरभिधेयं स्यात् ।
तथेत्यादि [पृ०१४ पं०६], श्लोकाभावे साधनादीनामुपक्षेपाभावात् पक्षादीनां विचारणमसंबद्धं प्रतिभासते ।
151
Jain Education International
-
5
प्रयोजनमिति [अभिधानेन प्रयो] जनविशेषं प्रति उपायतां प्रकरणस्य निश्चित्य अनुपाये प्रवृत्त्यसम्भवात् प्रेक्षावतां तदर्थितया [ करणश्रवणादौ प्रवृत्ति: ] स्यादिति तदभिधानस्यार्थवत्ता वर्ण्यते । न चैतद् युक्तम् । यतः प्रेक्षावतां प्रवृत्तिः प्रयोजनार्थिनां तदुपाये तद्भावनिश्चयात् । यथा कृषीव[ लादीनां सस्या] द्युपाये बीजादावबीजादिविवेकेनाऽवधृतबीजादिभावानाम् । अन्यथा ह्यनिश्चितोपायानामुपेयार्थिनां प्रवृत्तौ प्रेक्षावत्तैव हीयेत । उपेये तु [ भाविनि प्रमा] णव्यापारासम्भवादनिश्चयेऽपि विवेचितोपायाः प्रतिबन्धवैकल्ययोरसम्भवे 'योग्यमेतद्विवक्षितं कार्यं निष्पादयितुम्' इति सं[ भावनया प्रवृत्तौ ] प्रेक्षावत्तातो न हीयेरन् । निश्चयश्च प्रमाणादेव । न च प्रयोजनवाक्यस्य प्रामाण्यमस्ति, शब्दानां बहिरर्थे प्रतिबन्धाभावात् । विवक्षायां [तस्य प्रामाण्येऽपि यथा ] वस्तुप्रवृत्तिनियमाभावात् न ततः प्रकरणस्य प्रयोजनविशेषं प्रति उपायतानिश्चयः समस्ति । न हि ये यथा यमर्थं विवक्षन्ति ते तथैव तमनु[ तिष्ठन्ति 20 वि] संवादनाभिप्रायाणामन्यथाऽभिधायान्यथाप्रवृत्तिदर्शनाल्लोके सर्व्वत्राना श्वासात् । प्रयोजनविशेषोपन्यासात् प्रकरणस्य तदुपायता [ विषयः संशयः ज]न्यते ततस्तद्भावनिर्धारणाय कृषीवलादेरिव बीजाद्यवधृतये प्रवृत्तिर्युक्तेति चेत्; न, प्रयोजनविशेषोपायतासंशयस्य तदभिधा [नात् प्रागपि ] भावात् । तत्साधकबाधकप्रमाणाभावे तस्य न्यायप्राप्तत्वात् । अनुमानादिव्युत्पत्त्यर्थानां च प्रकरणानां दर्शनात् किमस्यानुमा[ नव्युत्पादनं प्र ] योजनमन्यद्वा न वा किञ्चिदपीत्येवंरूपश्च संशयः प्राक् प्रवर्तमानः केन निवार्येत । अपि च किमिदं निष्प्रयोजनम्, उत प्रयोजन[वत्, अस्मदभिम] तेन वा प्रयोजनेन तद्वदिति जिज्ञासोः प्रवृत्तिसम्भवे व्यर्थ एव प्रयोजनवाक्योपन्यासः । तस्माद् 'यत् प्रयोजनरहितं वाक्यम्, तदर्थो वा, न तत् प्रेक्षावताऽऽरभ्यते कर्तुं प्रतिपादयितुं वा तद्यथा दशदाडिमादिवाक्यं काकदन्त [ परीक्षा च, निष्प्रयोजनं चेदं ] प्रकरणं तदर्थो वा इति व्यापकानुपलब्ध्या प्रत्यवतिष्ठमानस्य तदसिद्धतोद्भावनार्थमादौ 25 प्रयोजनवाक्योपन्यासः ।" इति अर्चटविरचितायां हेतुबिन्दुटीकायाम् पृ० १-३ ॥ १. शास्त्रार्थः नास्ति 25 C. P. II २. र्थमादिवा J. P. ॥ ३ तथेति C. ॥ ४. 'मुपन्यासाभावात् P. ॥
For Private & Personal Use Only
10
15
20
www.jainelibrary.org