________________
पार्श्वदेवगणिविरचिता नन्वादौ यद्ययं श्लोकोऽभिधेयादीनां प्रतिपादनार्थमुपन्यस्यते, कथं पुनरसौ तानि प्रदर्शयतीत्याह- अयं चेत्यादि [पृ०१४ पं०९] । एतदेवमिति, कोऽर्थः? 'अभिधेयप्रयोजने साक्षाद्दर्शयति, संबन्धं तु सामर्थ्येन' इत्येतदित्यर्थः । लेशतः संक्षेपेण ।।
___'एनं लेशतो व्याख्याय' [पृ०१४ पं०१०] इत्युक्तम् । तत्र व्याख्याया 5 आश्रयनिरूपणायाह- व्याख्या च पदवाक्यसंगतेति [पृ०१४ पं०११], पद-वाक्ययोः सम्यग् 5 गता स्थितेति विग्रहः । तत्र सुप्तिङन्तं पदम् [ पा० ९/८/१८/२९] । पदसमुदायो वाक्यमुच्यते। तत्रापीति [पृ०१५ पं०१] व्याख्यायाः पद-वाक्याश्रितत्वेऽपीत्यर्थः। पदार्थगमनिका पदानामर्थस्तस्य गमनिकेति । तत्र गम्यते ज्ञायतेऽर्थो यस्मात्तद् गमनं व्याख्यानम् , तदेव
गमनिका । स्वार्थे कनि रूपम् । न्यायादनपेता न्याय्या । अनपेतेत्यर्थे यः । 10 इति पदानीति [पृ०१५ पं०३], अत्र श्लोके द्वादश पदानीत्यर्थः । सिद्धिति 10
वाक्येन षिधेर्वा निपातनात् साधनशब्दः साध्यत इत्याचष्टे । पक्षादिवचनानां जातं समूहः । अथ कस्मिन् विषये एतत् प्रयुज्यत इत्याह - विषयश्चेति [पृ०१५ पं०६] ।
___ अथ दुष्टिरिति वाक्ये इनोऽभावादूदादेशाप्राप्तौ दूषणमिति न सिध्यति । उच्यते । निपातनाद् भविष्यतीति । साधनदोषा उद्भाव्यन्ते प्रकटीक्रियन्ते यैस्तानि तथा, तानि च 15 तानि वचनानि च, तेषां जातमिति विग्रहः । किंचित्साम्येनेति [पृ०१५ पं०१०] । 15
पक्षाधुपन्यासात् किल साधनाभासेऽपि साधनसाम्यमस्ति । केवलं कस्यचित् पक्षादेर्दोषात् साधनाभासत्वमिति । आभासः सादृश्यं किंचित् साम्यमुच्यते । तथाऽनयोरपि यथाक्रम विषयो धर्मविशिष्टो धर्मी सम्यक् साधनं चेति बोद्धव्यः ।
परेषां संविदिति [पृ०१५ पं०१८] कर्मणि षष्ठीयम् । वाक्यार्थस्त्वयमित्यादि " [पृ०१५ पं०२०] । साभास इति आभासयुक्ते । अत्र च यथा 'देवदत्तो यज्ञदत्तेन सह 20 पूज्यताम्' इत्युक्ते द्वयोरपि पूजा कर्तव्या भवति तथेहापि 'साधन-दूषणे साभासे परसंविदे' इत्युक्ते साधनादिचतुष्टयमपि परावबोधायेति गम्यते । धनुर्धर इति [पृ०१५ पं०२१] धारेर्धरोऽचि विज्ञेयः।
कार्यत्वेनेति [पृ०१६ पं०१] कार्यरूपतया इन्द्रियं कारणमाश्रित्य यदुत्पद्यते । एतेन 'इन्द्रियं कारणं प्रत्यक्षज्ञानं च तत्कार्यम्' इत्यावेदितम् । विषयश्च प्रत्यक्षस्य ।
25 -
25
१ व्याख्या चेति । पदवाक्ययोः C.P.|| + १६४४ धर्मपथ्यर्थन्यायादनपेते [पा० ४/४/२२] धर्मादनपेतं धर्म्यम्। पथ्यम्। अर्थ्यम्। न्याय्यम् ।" पा० सिद्धान्तकौमुदी ॥ २ दुष्टिर्वेति c. ॥ ३ इति धनुर्धरोऽचि c.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org