________________
न्यायप्रवेशकवृत्तिपञ्जिका। स्वलक्षणरूपोऽर्थ इति। मीयतेऽर्थो वयादिरनेन ज्ञानेन धूमादिलिङ्गदर्शनादुत्पन्नेन वयादिविषयाकारग्राहिणेति मानम् । 'वयादिनाऽत्र भाव्यम्' इत्येवमग्न्याद्यवबोधरूपं ज्ञानमित्यर्थः । इह च पश्चादर्थे वर्तमानस्याऽनुशब्दस्य अव्ययं विभक्ति [ पा० २/१/६] इत्यादिनाऽव्ययीभावसमासेन भवितव्यम्। स च नित्यो नित्यस्य च वाक्याभाव इति अस्वपदविग्रहमाह पश्चान्मानमनुमानमिति [पृ०१६ पं०४] । पश्चाच्छब्दश्च सम्बन्धिशब्दत्वात् पूर्वत्वमपेक्षते इत्याह- पक्षेत्यादि [पृ०१६ पं०४] । गृह्यतेऽनेनेति ग्रहणं लिङ्गस्वरूपस्य निश्चायि प्रत्यक्षम्, ग्रहणं च संबन्धस्मरणं चेति विग्रहे पक्षधर्मस्य हेतोर्ग्रहण-संबन्धस्मरणे, ते पूर्वे यस्य ज्ञानस्य तत् तथा । यद्वा पक्षधर्मस्य ग्रहणं च साध्यसाधनयोरविनाभावरूपस्य संबन्धस्य स्मरणं चेति विग्रहः । शेषं तथैव । एवंभूतं यज्ज्ञानं लिङ्गिनि तदनुमानम्। किमुक्तं भवति?। गृहीते पक्षधर्मे स्मृते च साध्यसाधनसंबन्धेऽनुमानं प्रवर्तत इति पश्चात्कालभाव्युच्यते ।
वक्ष्यति-त्रिरूपा [ ] दित्यादि [पृ०१६ पं०५] । नन्वेतत् सूत्रं धर्मोत्तरीयम् । " न तु प्रकृतशास्त्रसत्कम् । एतच्छास्त्रसूत्रं चेदम्- लिङ्गं पुनस्त्रिरूपमुक्तम् । तस्माद्यदनुमेये ज्ञानमुत्पद्यते अग्निरत्र अनित्यः शब्द इति वा तदनुमानम् [पृ० १०.पं. ७] इति, तत् कथं वक्ष्यति चेति प्रोच्यते? सत्यमेतद्, यद्यप्यत्रैवंविधं सूत्रं न विद्यते तथाऽपि धर्मोत्तरीयसूत्रमप्यत्रत्य
सूत्रोक्तानुमानलक्षणाभिधायकमेवेत्यर्थतोऽत्रत्यधर्मोत्तरीयसूत्रयोः साम्यमेवेत्यर्थापेक्षया वक्ष्यतीति . व्याख्येयमिति न विरोधः ।
अन्यस्त्वाह-नन्वनुमानमिति यद्यव्ययीभावस्तदाऽनुमानस्येति प्रयोगो न स्यात् अव्ययीभावात् [ पा०२/४/८३] इत्यादिनाऽम्भावेन यतो भाव्यम् । उच्यते । न सर्वदाऽव्ययीभावः,अपि तु तत्पुरुषोऽपि। अनुगतं संबद्धं मानमनुमानमिति । तत्रानुगतं पक्षधर्मग्रहणादिना । मानं वत्यस्तित्वविषयं ज्ञानमिति ज्ञेयम् । यद्वाऽनुमितिरनुमानमिति भावसाधनस्य वा द्रष्टव्यः । विषयश्चानुमानस्य सामान्यमिति ।
10
15
१. “अव्ययं विभक्तिसमीपसमृद्धिव्यूद्ध्यर्थाभावात्ययासम्प्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूर्व्ययौगपद्यसादृश्यसम्पत्तिसाकल्यान्तवचनेषु' इति संपूर्ण सूत्रम्, पा० २/१/६/६५२ ॥ २. पश्चाच्छब्दस्य संबन्धिशब्दत्वात् पूर्वत्वापेक्षेत्याह C. ॥३. "अनुमानं द्विधा । स्वार्थ परार्थं च । तत्र स्वार्थं त्रिरूपाल्लिङ्गाद् यदनुमेये ज्ञानं तदनुमानम्।" -इति न्यायबिन्दौ २/१-३॥ न्यायबिन्दोः प्रमाणविनिश्चयस्य च धर्मोत्तरविरचितायां टीकायां नेदमुपलभ्यते । धर्मोत्तरविरचितेऽन्यस्मिन् कस्मिंश्चिद् ग्रन्थे इदमनुमानलक्षणं भवेदिति संभाव्यते ॥४. "नाव्ययीभावादतोऽम्त्वपञ्चम्याः" इति संपूर्ण सूत्रम्, पा० २/४/८३/६५७ ॥ ५. हेतुज्ञानस्मरणादिना- टि० c.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org