________________
पार्श्वदेवगणिविरचिता चशब्दः पूर्ववदिति [पृ०१६ पं०५] समुच्चयार्थ इत्यर्थः । यद्वा चकार: प्रत्यक्षानुमानयोस्तुल्यबलत्वसूचकः । तथाहि- यथार्थाविसंवादित्वादर्थं प्रापयत् प्रत्यक्षं प्रमाणं तद्वदर्थाविनाभावित्वादनुमानमपि परिच्छिन्नमर्थं प्रापयत् प्रमाणमिति । एतेन यदुक्तं कैश्चित् प्रत्यक्षं ज्येष्ठं प्रमाणं नानुमानम् [ ] इति तत् प्रत्युक्तम् । यतो द्वयोरपि स्वव्यापारे तुल्यबलत्वम् । तथा प्रत्यक्षानुमानाभासयोरपि विषयः सामान्यमिति ज्ञेयम् ।
इहात्मनो जीव [पृ०१६ पं०८] इति पर्यायः परप्रसिद्धयोपात्तः । अथ तर्हि 5 किंरूपोऽत्रात्मा ग्राह्य इत्याह- आत्मा चेति [पृ०१६ पं०१०] । चित्तचैत्तानां संतानो रूपं यस्य स तथा । तत्र चित्तं सामान्यार्थग्राहि ज्ञानम् । चैत्ता विशेषावस्थाग्राहिणो ज्ञानक्षणाः । संतानश्च संतन्वन्ति अनुवर्तन्ते संस्कारा अस्मिन्निति संतानो भूत-भवद्
भविष्यत्क्षणप्रवाहरूप उच्यते । ततः सामान्यविशेषज्ञानक्षणसंततिस्वरूप इत्यर्थः। 10 नित्यत्वादिधर्मेति । नित्यत्वादिर्धर्मो यस्यात्मनः स तथा । इह धर्मादन् केवलात्- 10 [ पा०५/४/१२८/८६३] इत्यन्। अस्यार्थ:- केवलादसमस्तादेकपदभूताद्धर्मशब्दाबहुव्रीहौ समासे वाऽन् भवति यथा परमधर्मः परमधर्मा । केवलादिति किम्? । परमस्वधर्मः । परमः स्वो धर्मोऽस्येति त्रिपदेऽपि बहुब्रीहौ न स्यात् । केवलैकभूतपूर्वपदयुक्ताद्धर्मात् स्यानं द्वित्र्यादिपदयुक्तादिति । प्रासङ्गिकमिदमुक्तं सोपयोगित्वादिति ।
तत्प्रतिपादकप्रमाणाभावादिति [पृ०१६ पं० ११] । नित्यत्वादिधर्मकस्यात्मनो 15 ग्राहक प्रत्यक्षादिप्रमाणाभावात् । तथाहि- न प्रत्यक्षग्राह्योऽसावतीन्द्रि यत्वात्। 15
नाप्यनुमानग्राह्योऽनुमानस्य लिङ्ग-लिङ्गिनो: साक्षात् संबन्धदर्शनेन प्रवृत्तेः । आगमगम्योऽपि नासौ, आगमानामन्योन्यं विसंवादात् । तस्मात् नित्यत्वादिधर्मकस्यात्मनोऽघटमानकत्वाच्चित्त
चैत्तरूपविज्ञानसंततिरेवात्रात्मशब्दवाच्या ज्ञेया । तस्याश्च चिद्रूपत्वात् सुखदुःखेच्छाद्वेषप्रयत्नक्रियादिकं विज्ञानमुपजायते । तत आत्मसंविदे इति कोऽर्थः ?। चित्तचैत्तसंततेरवबोधायेति स्थितम् । आत्मसंवित्फलत्वादिति [पृ०१६ पं० १३] । प्रत्यक्षादीनामिति शेषः। ।
आहेत्यादि [पृ०१६ पं० १३] । न केवलं स्वार्थानुमानमनुमानमेव, साधनमपीत्यपेरर्थः । वस्तुतः इति, यद्यप्यनुमानं ज्ञानस्वरूपं साधनं च पक्षादिवचनात्मकं तथापि साधनमप्यनुमानमेव, परमार्थतः तस्यापि ज्ञानोत्पादकत्वादिति भावः । ततश्च श्लोकमध्ये
१ 'ग्राहिणः सुखादिज्ञानक्षणा: c. ॥ २ "धर्मादनिच् केवलात्''- पा० ५/४/१२८/८६३ ॥ ३ मेवेति शेष: J. P. ॥ ४ स्वार्थस्वरूपं c.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org