________________
६३
10
न्यायप्रवेशकवृत्तिपञ्जिका। एकमेव साधनपदमनुमानपदं वा न्यस्यतामिति पराशयः। स्वार्थ-परार्थरूपो भेदस्ताभ्यां वा भेदस्तस्मिन् । भेदेनेति [पृ०१६ पं० १५] पृथग्भावेन । प्रत्यक्षानुमाने पुरःसरेऽग्रेसरे यस्य साधनदूषणप्रयोगस्य स तथा, तस्य भावस्तत्त्वम्, तस्मात् । तयोः साधनदूषणयोः प्रयोगस्तत्प्रयोगः, तस्य [पृ०१६ पं० १८]। तत्पुरःसरत्वे प्रत्यक्षानुमानपुरःसरत्वे, साधनदूषणप्रयोगस्येति शेषः । तत्फलत्वादिति [पृ०१६ पं० १९] परसंवित्फलत्वात् ।। प्रत्यासत्तेायादादावुपन्यासः। साधन-दूषणयोरिति शेषः । यदेव परसंवित्फलं " तदेवादावुपन्यस्यत इति मन्यते । परार्थेत्यादि [पृ०१६ पं० १९] । ततो यदेव परोपकारकारि तदेवादावुपन्यसनीयमिति भावः ।।
अधुना प्राग् यदुक्तमयं च प्रयोजनाभिधेये एव दर्शयति साक्षात्[ पृ०१४ पं० ९] इत्यादि तत्प्रदर्शनायाह - इहेत्यादि [पृ०१६ पं० २१] । इहेति शास्त्रे । ननु यथा अभिधेय-प्रयोजने वचनेन निर्दिष्टे एवं संबन्धोऽपि किमिति नोक्त इत्याह - ..
- 10 संबन्धस्त्विति [ पृ०१६पं० २२]। कार्यं त्विति [पृ०१७ पं० १] । प्रकरणार्थस्य । साधनादेरभिधेयस्य परिज्ञानमवबोधः । अथ कार्यकारणयोः संबन्धोऽस्तीति कथं प्रत्येतव्यमित्याह- तथाहीति[पृ०१७ पं० २] । इदमित्यर्थपरिज्ञानम् । अस्येति शास्त्रस्य। अयं च प्रयोजनेन सह शास्त्रस्य संबन्ध उक्तः। तथेहाभिधानाभिधेयलक्षणोऽपि संबन्धः
शास्त्रसाधनादीनां विज्ञेयो यथेदमस्याभिधेयमिति । एतेनेदं दर्शितम्- अभिधेयेन सह 15 प्रयोजनेन च सह शास्त्रस्य संबन्धो भवतीति यथाऽस्येदमभिधेयमस्येदं प्रयोजनमिति । 15
आहे त्यादि [पृ०१७ पं० ३] । किल संबन्धं निरूपयता कार्य प्रयोजनमस्य प्रकरणार्थपरिज्ञानमित्युक्तम् । ततश्च यदि प्रयोजनत्वेन त्वया प्रकरणार्थपरिज्ञानमुच्यते तदाऽमुयोरप्रयोजनत्वं प्राप्नोतीति प्रेर्यार्थः । ननु बहूनामुत्तरोत्तराणां प्रयोजनानां पर्यन्तजं किमित्याह- तथा चेत्यादि [पृ०१७ पं० ५] । इह जगति न विद्यते उत्तरमग्रेतनं यस्मादन्त्यात्तदनुत्तरम् । तच्च तत् प्रयोजनं चेति विग्रहः । तथा चोक्तमित्यादि [पृ०१७ पं० ६]। हातुमिष्यते यः स हेयः । रागादिकोऽहि-विषादिकश्च । उपादातुमिष्यते यः स . उपादेयः । ज्ञानादिक: स्रक्-चन्दनादिकश्च । हेयोपादेयावौँ विदन्ति ये ते तथा । हेयोपादेयाभ्यां च तृतीयो राशिरेव नास्ति । उपेक्षणीयोऽपि ह्यनुपादेयत्वाद्धेय एव । किमुक्तं भवति ? । यत्रोपादेयतेच्छा नास्ति स हेय एवेति । उपेक्षणीयेऽपि च ग्रहणेच्छा नास्तीति हेयतैव । अतोऽस्य हेयमध्य एवान्तर्भावो विज्ञेयः । आहेत्यादि [पृ०१७ पं० ९] । साभासं मुक्तिहेतवे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org