________________
६४
पार्श्वदेवगणिविरचिता इत्येवं किमिति नोक्तमिति पराशयः। तत्प्रथमतयैवेति । तस्यानुत्तरप्रयोजनस्य प्रथमता तत्प्रथमता, तयैव निर्देशे क्रियमाणे । तस्येत्यनुत्तरप्रयोजनस्य ।
तस्यापीति [पृ०१७ पं० १२] न केवलं श्रोतृणां कर्तुरपीत्यर्थः । अनन्तरपरंपरभेदाभ्यां भिद्यते स्म भिन्नं पृथक् कृतम् । इदमिति प्रयोजनम् । न्यायाद् बाह्या 5 बहिर्भवास्तेषाम् [पृ०१७ पं० १५] । एतावानेवेति [पृ०१७ पं० १७]। 5
इयत्परिमाणोऽष्टपदार्थप्रतिपादक इत्यर्थः । शिष्यते इति कथ्यते । अर्यते गम्यतेऽवबुध्यते इत्यर्थः, अर्तेरौणादिकस्थप्रत्ययः । यद्वाऽर्थ्यतेऽर्थिभिरभिलष्यते इत्यर्थः । चुरादीनन्तादल्प्रत्ययः । शास्त्रार्थस्य संग्रहः पिण्डनं शास्त्रकारेण शास्त्रार्थसंग्रहः [पृ०१७ पं० १९] । अथ शास्त्रं बृहत्प्रमाणमनेकार्थप्रतिपादकं च यत् स्यात्तदुच्यते । इदं त्वल्पग्रन्थत्वादल्पपदार्थाभिधायकत्वाच्च कथमुच्यते शास्त्रमित्याह- शास्त्रता चेत्यादि [पृ०१७ पं० २०] ।
उद्देश [पृ०१७ पं० २३] उत्क्षेपोऽविशेषभणनम् । निर्देशो विशेषभणनम् ।
निर्धारणं चेति [पृ०१८ पं० १] गुणवतः पदार्थस्य जाति-गुण-क्रियाभिः निर्धार्यस्याश्रयात् समुदायात् पृथक्करणं निर्धारणम् । समुदायवाचकाच्च षष्ठी-सप्तम्युत्पत्तिरिति । साधनत्वेनेति [पृ०१८ पं०२] । प्रतिपाद्यप्रतीतावारोपकत्वेनेति । क्षीरसंपन्नत्वेन दुग्धप्राचुर्येण। यद्यप्यन्यत्र गोषु कृष्णा संपन्नक्षीरा [ ] इत्यादौ वाक्ये संपन्नक्षीरासु गोषु कृष्णगुणोपेताया गोः कृष्णगुणेन निर्धारणप्रसिद्धिस्तथापि क्षीरसंपन्नत्वगुणेनापि निर्धारणे न काचित् क्षतिरिति । मन्यते । शबलधवलादिवर्णविशिष्टाद् दुग्धवतो दोहनक्रियासामर्थाद् गवां समुदायादेतास्वियं गौः परिदृश्यमाना क्षीरसंपन्ना वर्तते इति यदा वक्त्रा व्यपदिश्यते तदेदं निर्धारणं क्षीरसंपन्नत्वगुणेनैव भवतीति ।
पच्यत इत्यादि [पृ०१८ पं०३], कश्च स यो व्यक्तीक्रियते इत्याह- स चेति 20 [पृ०१८ पं०४]। तस्य बहुव्रीहेर्गुणा अवयवा आरम्भकविशेषा यैर्बहुव्रीहिरारभ्यते ते 20
तद्गुणास्तेषां संविज्ञानं ग्रहणं यत्र [पृ०१८ पं०५] । यद्वा तस्य बहुव्रीहिवाच्यस्य गुणस्तद्गुणस्तस्य संविज्ञानं यत्रेति स तथा । [पृ०१८ पं०७] पर्वतादिकमित्यत्रादिशब्दः समीपार्थः। उपलक्षणमिति भावने ति [पृ०१८ पं०९] । पर्वतः क्षेत्रस्य समीपभूतत्वात्तस्यैवोपलक्षक इत्यर्थः । ब्राह्मणादयो वेति [पृ०१८ पं०१०] । अत्रादिशब्दस्य व्यवस्थार्थत्वाद् ब्राह्मणादिक्रमेण व्यवस्थिता इत्यर्थः । अस्मादित्यवधिभूतात् [पृ०१८ पं०१२] । .
१ इत्येव J. P२ °क्रियाभिः समुदायान्निर्धायस्याश्रयात् पृथ° J. P. ॥ ३ °त्वेन क्षीर' J. P. ॥ ४ क्षेत्रसमीप° c.॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org