________________
न्यायप्रवेशकवृत्तिपञ्जिका।
६५ ते चेत्यादि [पृ०१८ पं०१४] । इह केषांचिन्मते पञ्चावयवं वाक्यं साधनमुच्यते । यथा प्रतिज्ञा हेतुर्दृष्टान्त उपनयो निगमनं चेति । तत्र साध्यनिर्देशः प्रतिज्ञा । हेतुः साध्यसद्भावभावतदभावाभावलक्षणः कार्य-स्वभावा-ऽनुपलम्भाख्यस्त्रिरूपः। साध्यसाधनयोर्व्याप्तिनिमित्तप्रतिबन्धग्राहकप्रमाणविषयः साध्याभावे साधनाभावोपदर्शनाश्रयश्च
दृष्टान्तो महानस-जलाशयादिः। साध्यधर्मिणि हेतोरुपसंहार उपनयः । प्रतिज्ञायाः पुनर्वचनं 5 निगमनम् ।
5 सौगतमते तु न पञ्चावयवमपीष्यते, किन्तु तन्मते हेतुपुरःसर एव प्रयोगः क्रियते । ततो हेतुदृष्टान्तयोरेव साधनावयवत्वं न पक्षस्य । पक्षानुच्चारणे साध्यप्रतीतिस्तर्हि कथमिति चेदुच्यते - उपनयव्याप्तिप्रदर्शनमात्रसामर्थ्यादेव साध्यसंप्रत्ययस्य भावात् । तथाहि-प्रदेशस्थं धूममुपलब्धवतस्तस्य धूमस्याग्निना साध्यधर्मेण सह व्याप्तिस्मरणे तयोरुपनयव्याप्तिप्रदर्शनवाक्ययोः सामर्थ्यादेवाग्निरत्रेति भवति । न हि स्वार्थानुमाने स्वयंप्रतीतौ प्रमेयस्य । कश्चिदुपदर्शयिता तद्वत् परार्थानुमानेऽपि । अतः पक्षो न निर्देश्यः । तथा प्रतिज्ञायाः प्रयोगे निराकृते तस्या निगमनमपि दूरापास्तमेव । तर्हि पक्षलक्षणं निरर्थकत्वात् कर्तुं न युज्यते बौद्धस्य । येषां हि नैयायिकादीनां पक्षनिर्देशोऽस्ति तेषामेव युज्यते तल्लक्षणं कर्तुम् । सत्यमुक्तम् । न साधनवाक्यावयवत्वादस्य लक्षणमुच्यते, किन्तु शिष्यस्य सम्यक्पक्षलक्षणपरिज्ञानार्थम् । अन्यथा वाद्युपन्यस्तस्य पक्षस्य गुणदोषावजानन् कथं तद्गुणदोषविचारणायां प्रवण: स्यात् । अत एतदभिप्रायेणोक्तम्- पक्षोपलक्षितहेतुदृष्टान्तवचनानि साधनमिति । [पृ०१८ पं०१४] । अथेह साधनशब्दो व्युत्पत्तित्रयनिष्पन्नस्ततश्च कस्यां कोऽर्थोऽस्येत्याह - इह चेत्यादि [पृ०१८ पं०१५]. । इहेति साधनशब्दविचारे । परसंताने इत्यन्यज्ञानसंततौ [पृ०१८ पं०१६] । प्रतिपाद्यं गतमाश्रितं प्रतिपाद्यगतम् । तत्फलत्वादिति [पृ०१८ पं०१८] ज्ञानफलत्वात् । पक्षादिवचनस्येति शेषः ।
यदि ज्ञानं साधनं भावपक्षे तर्हि पक्षादिवचनानि साधनमिति कथमुक्तमित्याह- 2 पक्षादीति [पृ०१८ पं०१८] । कार्ये प्रतिपाद्यगतज्ञाने । कारणस्य पक्षादिवचनस्य । उपचारात् समारोपात् । ततो यद् यत्रोपचर्यते तत्तेन व्यपदिश्यते इति न्यायात् पक्षादिवचनैजन्यत्वाज्ज्ञानस्य तदपि पक्षादिवचनानीति । तथाहि- यत् पक्षादिवचनं यत्र प्रतिपाद्यगतज्ञाने
25
१ मतेन प° c. ॥ २ गते ज्ञाने c. ॥ ३ ततो नास्ति c.॥ ४ र्जन्यमानत्वा' c. ॥ 25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org