________________
६६
पार्श्वदेवगणिविरचिता उपचर्यते तत् प्रतिपाद्यगतज्ञानं तेन पक्षादिवचनेन व्यपदिश्यते । तत्तेनेत्यत्र तदित्यनेनोपचरणीयस्याधारभूतं वस्तु सर्वत्र ग्राह्यम् । यथेदमिति [पृ०१८ पं०१९] । पुराणमेव पौराणम्, स्वार्थेऽण् । अत्र हि शरीरं कर्मकार्यमपि पुरातनकर्मणा कारणेन व्यपदिश्यते । शरीरे कार्ये पुरातनस्य कर्मण उपचारोऽत्रेति हृदयम् ।
अथेह बहुवचनान्तेनैकवचनान्तस्य सामानाधिकरण्यं कथमित्याह - यथा वृक्षा , इत्यादि [पृ०१९ पं०२] । आहेत्यादि [पृ०१९ पं०४] साधनमित्यत्रेत्यर्थः । समुदितानामेवेति। पक्षोपलक्षितहेतुदृष्टान्तवचनानां मिलितानामेव न त्वेकैकशो विशकलितानामित्यर्थः । समस्तानां यत् साधनत्वं तस्य ज्ञापनार्थः । नन्वेवं सति विदुषां वाच्यो हेतुरेव हि केवल: [ प्रमाणवा०३।२७] इति हेतोः केवलस्य साधनत्वं यदुच्यते तद् विरुध्यते । नैवम् । अव्युत्पन्नविनेयगणमधिकृत्य
समस्तानां साधनत्वम् । व्युत्पन्नमतींश्चोद्दिश्य केवलस्यापि हेतोः साधनत्वमिति ज्ञेयम् । 10 व्युत्पन्नमतयो हि हेतुमात्रादेव साध्यं प्रतिपद्यन्ते । यथा स्वार्थानुमाने हेतुमात्रादेव साध्य- 10 प्रतीतिस्तथा परार्थानुमानेऽपि हेतुमात्रेणापीति भावः ।
कारकमिति [पृ०१९ पं०७] जनकम् । व्यञ्जकमिति प्रकाशकम् ।
उक्तं चेत्यादि [पृ०१९ पं०१५] । इह स्वसमयपरसमयज्ञा इत्यनेन ज्ञानातिशयमाह। कुलजा इत्यनेनाऽकुलजक्रियाणामुपहासादिरूपाणामकारकत्वं तेषामाह । पक्षद्वयेप्सिता इत्यनेन 15 च वल्लभत्वं सूचयति । क्षमिण इत्यनेनारोषणत्वमाह । वादपथेष्वभियुक्ता अनेन तु 15
वादमार्गे कृताभ्यासत्वं सूचयति । तुलया सह समास्तुलासमाः। अनेन तु मध्यस्थतामिति। अयमर्थ:- यथा तुला दवरके गृहीता गुरुतरं पक्षमङ्गीकृत्य नीचैर्नमति इतरस्य च न्यूनतां दर्शयति पक्षद्वयतुल्यतायां च मध्ये दवरकेण धृता समतामालम्बते एवं शुद्धं पक्षं तेऽपि शोभनतया समर्थयन्ति हीनं पक्षं चाशोभनतया कथयन्तीति । समगुणत्वे च समतामेवोपदर्शयन्तीति।
आहेत्यादि, [पृ०१९ पं०१८] पूर्वोपवर्णितस्वरूपाणां सर्वोऽप्यर्थोऽवगत एव भवतीति भावः । वादिप्रतिवादिनोः पक्षपरिग्रहस्तस्य समर्थना तस्यां सहः क्षमः । तदन्तर्गत इति [पृ०१८ पं०२०] । तयोर्वादिप्रतिवादिनोरन्तर्गतो हृदयान्तर्वर्ती साधयितुमिष्टोऽप्रतीतस्तेषामतः
१ "तद्भाव-हेतुभावौ हि दृष्टान्ते तदवेदिनः। ख्याप्येते विदुषां वाच्यो हेतुरेव हि केवलः॥" इति सम्पूर्ण: 25 श्लोकः॥ २. इत्यनेन इहाति ज्ञानातिशय. ॥ ३. ° ता अनेन c. ॥ ४ °मार्गकृता' c. 25
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org