________________
5
15
न्यायप्रवेशक वृत्तिपञ्जिका ।
६७
साधनवचनेन तेषां प्रतिपाद्यते । तत्र वादकाले द्वयोर्मध्ये योऽग्रवाददायी सवादीत्युच्यते । यश्च वाद्युक्तमनूद्य तदुक्तार्थदूषणार्थं पश्चाद् वैदति स प्रतिवादीत्युच्यते ।
[पृ०२० पं०१४] प्रतिपन्नमित्यभ्युपगतम् । विशिष्टो [ पृ०२० पं०१५] विशेषितः । अत्राहेत्यादि [पृ०२० पं०१७ ] । युनक्ति स्म युक्ता संगतेत्यर्थः । न युज्यते इति प्रसिद्धतेति शेषः । अन्यथेति यदि विशेषणमपि प्रसिद्धं गृह्येतेत्यर्थः तदा विवादाभावेन पक्षोपलक्षितहेतुदृष्टान्त- वचनोच्चारणस्य नैरर्थक्यमेव स्यात् । ततो विशेषणस्य प्रसिद्धता न 10 . युज्यत इति प्रेर्यार्थः ।
20
यदि प्राश्निकानामप्रतीतोऽर्थः संवृत्तस्तर्हि प्रतिपाद्यते केषामिति प्रश्ने सत्याहसामर्थ्यादित्यादि [पृ०२० पं०२ ] । अप्रतीतार्थप्रतिपादकत्वादिति अप्रकाशार्थप्रतिपादकत्वादित्यर्थः । व्यतिरेको बीजादिरिति । प्रयोगो यथा - यत् पुनर्जनकं तत् पूर्वमविद्यमानार्थजनकं दृष्टम् । यथा बीजमडकुरस्येति ।
अभ्युपगमसिद्धान्तपरिग्रह इति [ पृ०२० पं०२०] । वादिना यद् वस्त्वङ्गीकृत्य साधनमुच्चार्यते तदेव तस्य पक्ष इति । स्वयमित्यनेन गृह्यत इति भावः । अथ विशेषणानि व्यवच्छेदकानि भवन्ति । ततश्चेह कस्य केन व्यवच्छेदः कृत इत्याह- इत्यादि [पृ०२१पं०२]। इह शास्त्रविचारे । लक्ष्यं लक्ष्यते विशेष्यतेऽनेनेति लक्षणं विशेषणमुच्यते। अप्रसिद्धं विशेष्यं यस्मिन् स तथा तस्य । तत्राप्रसिद्धविशेष्यो यथा सांख्यस्य बौद्धं प्रति चेतन आत्मेति । अप्रसिद्धविशेषणस्येति [पृ०२१ पं०४] यथा बौद्धस्य सांख्यं प्रति विनाशी शब्द इति । अप्रसिद्धोभयस्येति यथा वैशेषिकस्य बौद्धं प्रति सुखादिसमवायिकारणमात्मेति ।
१ वदतीति स प्रतिवादी उच्यते C. ॥ २ सामर्थ्यादिति C. ॥ ३ ° विचारे लक्ष्यते विशिष्यते तेनेति 25 लक्षणं C. ॥
Jain Education International
5
20
स्वयमित्यादि [पृ०२१ पं०४] | सिद्धान्तो हि चतुर्विधः प्रतिपाद्यते । तद्यथासर्वतन्त्रसिद्धान्तः प्रतितन्त्रसिद्धान्तोऽधिकरणसिद्धान्तोऽभ्युपगमसिद्धान्तश्चेति । तत्र सर्वतन्त्रसिद्धान्तो यथा सन्ति प्रत्यक्षादीनि प्रमाणानि द्रव्यादीनां प्रमेयाणां साधकानि । तथा आपो द्रवाश्चलो वायुरचाक्षुषस्त्वगिन्द्रियग्राह्यश्चेत्यादि सर्वशास्त्राभ्युपगतत्वात् सर्वतन्त्रः । प्रतितन्त्रसिद्धान्तः स उच्यते यः स्वतन्त्रे सिद्धो न च प्रतितन्त्रे । यथा सर्वं नित्यं सांख्यानां सर्वमनित्यं बौद्धानां सर्वं नित्यानित्यं जैनानामिति । अधिक्रियन्ते आक्षिप्यन्ते यस्मिन्नर्थाः
For Private & Personal Use Only
10
15
25
www.jainelibrary.org