________________
पार्श्वदेवगणिविरचिता सोऽधिकरणम् । अधिकरणमेव सिद्धान्तोऽधिकरणसिद्धान्तः। यस्मिन् वस्तुनि सिद्धे शेषं तदाश्रितमनुक्तमपि सामर्थ्यात् सिध्यति स इत्यर्थः । यथाऽऽत्मनो नित्यत्वे सिद्धे शरीरादन्यत्वसिद्धिरमूर्तत्वास्तित्वसिद्धिश्चेति। अभ्युपगमसिद्धान्तो नाम यद् वस्तु सिद्धान्तत्रयेणासिद्धमभ्युपगम्य स्वेच्छया साध्यते स प्रोच्यते । यथा शीतो हुतभुक्, तृणाग्रे गजयूथम्, खरे शृङ्गमित्यादिक इति । एतदेवास्य लक्षणं वृत्तिकृदप्याह-इहेत्यादि [पृ०२१६०५]।
एतेन च किं संपन्नमित्याह- ततश्चेति [पृ०२१ पं०७] । ततश्च यदुक्तं वादिषु मुख्येन धर्मकीर्तिना तदपि संगतमेवेति योगः । तत्र च यद्यप्याह साधनं वंचिच्छास्त्रे स्थितस्तथापि तेन वादिना यो धर्मोऽनित्यत्वादिः साधयितुमिष्टः स एव साध्यो नेतर आकाशगुणत्वादिकः। वादी च क उच्यते ? यस्तदा वादकाले साधनमाह। क्व सति स एव साध्यः ? अभ्युपगमे सति । कस्य ? कर्मतापन्नस्य धर्मस्य । कीदृशस्य ? अनेकस्याकाशगुणत्व-संयोगजत्वादेः । कस्मिन् धर्माभ्युपगम: ? तस्मिन् धर्मिणि शब्दादौ। " केन कर्ताऽभ्युपगमः?। तच्छास्त्रकारेण । यच्छास्त्रं तेन वादिनाऽभ्युपगतं तत् तच्छास्त्रम् , तत् करोति यस्तेन। अथ किमित्यन्यधर्मसाध्यत्वसंभव: स्यात् ? । उच्यते । येन वादिना शास्त्रमभ्युपगतं तेन वादिना शास्त्रसिद्धो धर्मः सर्व एव साध्य इति निषिध्यते, अभ्युपगत एव साध्यो नेतर इति । ननु कथमेवमुच्यते ? यावता न्यायमुद्रेयं यदुत शास्त्रे स्थित्वा वाद एव न कर्तव्यः। सत्यम्,अहमहमिकया यद्यपि किञ्चिच्छास्त्रमभ्युपगतः सन् साधनमाह तथापि य एव तस्येष्टः स एव साध्य इति ज्ञापनायेदं स्वयमिति पदमुक्तम् ।
___ अथ साध्यत्वेनेत्यस्य किं व्यवच्छेद्यमित्याह-अनेन चेति [पृ०२१ पं०११] । हेतुदृष्टान्ता इवाभासन्ते ये ते तथा । ततः साध्यासाधकत्वात् साध्याश्च ते हेतुदृष्टान्ताभासाश्चेति विग्रहः। अयमर्थः-यद्यपि चाक्षुषत्वादिहेत्वाभासो हेतुस्थाने प्रयुक्तो वर्तते तथापि साध्यासाधकत्वात् साध्य एवासौ परं यः पदार्थः साध्यत्वेन विषयीकृतः 'साधयाम्येनं
20 १ "तच्छास्त्रकारेणेति यत् शास्त्रं तेन वादिनाऽभ्युपगतं तच्छास्त्रकारेण, तस्मिन् साध्यधर्मिणि अनेकस्य धर्मस्याभ्युपगमे सति अन्यधर्मसाध्यत्वासंभवः। तथाहि- शास्त्रं येनाभ्युपगतं तत्सिद्धो धर्मः सर्व एव तेन साध्य इत्यस्ति विप्रतिपत्तिः, [सा] अनेनापास्यते, अनेकधर्माभ्युपगमेऽपि स एव साध्यो यो वादिन इष्टो नान्य इति । ननु च शास्त्रानपेक्षं वस्तुबलप्रवृत्तं लिङ्गम्, अतोऽनपेक्षणीयत्वान्न शास्त्रे स्थित्वा वादः कर्तव्यः । सत्यम् । आहोपुरुषिकया तु यद्यपि क्वचिच्छास्त्रे स्थितः इति किञ्चिच्छास्त्रमभ्युपगतः साधनमाह तथापि य एव तस्येष्टः स एव साध्य इति ज्ञापनायेदमुक्तम्" इति धर्मोत्तरविरचितायां न्यायबिन्दुटीकायाम्॥ 25 २ कीदृक्षस्य c. P.|| ३ साध्योऽदोज्ञाप° C.॥
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org