________________
5
10
न्यायप्रवेशकवृत्तिपञ्जिका। हेतुतः' इत्येवंभूतयेच्छया स साध्यः साध्याभिप्रायेण निर्दिष्ट: पक्षो भवति । तथा च सति हेतुदृष्टान्ताभासयोः साध्यासाधकत्वेन साध्ययोरपि न पक्षव्यपदेशस्तयोः साधनाभिप्रायेण निर्देशात् । यदा तु हेतुदृष्टान्तयोः परासिद्धयोः साधनान्तरेण सिसाधयिषया निर्देशः क्रियते तदा प्रतिज्ञात्वमभ्युपगम्यत एव । तथाहि-अनित्यः शब्दः कृतकत्वाद् घटवदित्युक्ते, न च कृतकत्वमसिद्धमित्याशङ्कय 'कृतकः शब्दः कारणान्वयव्यतिरेकानुविधायित्वाद् घटवत्। न चेदमप्यसिद्धम्, ताल्वादिकारणव्यापारे सत्येव शब्दस्यात्मलाभप्रतीतेः तदभावे चाप्रतीतेः 5 चक्रादिव्यापारसद्भावासद्भावयोर्घटस्यात्मलाभालाभप्रतीतिवत्' इत्येवं वदतो हेतुरपि पक्षो भवतीति। तदत्र साधनोपन्यासापेक्षया यत् साध्यत्वेन निर्दिश्यते तत् सर्वं पक्ष उच्यते ।
इच्छयाऽपि व्याप्तः पक्ष इति [पृ०२१ पं०१२] । अयमत्र भावार्थ:- यद्यपि परार्थानुमाने वचनोक्त एव पक्षो युक्तस्तथाऽपि वचनेनाऽनुक्तोऽपि पक्षो भवति सामोक्त त्वात्तस्य । तथाहि- यत्रार्थे विवादेन साधनमुपन्यस्यते तच्चे द् विवादास्पदीभूतमनुक्तमपि साध्यं न स्यात् किमिदानीं जगति किंचिनियतं साध्यं 10 स्यादित्यनुक्तमपि परार्थानुमाने साध्यं दृष्टम् । न्यायबलात् साध्यश्च पक्ष एवोच्यते इति ईप्सित इत्यनेनोक्तं भवति । तर्बुदाहरणेनेच्छया व्याप्तः पक्षो यादृशो भवति तादृशो दर्श्यतामित्याह- इत्येतच्चेति [पृ०२१ पं०१२] - तत्र हि परार्था इत्युक्तेऽप्यसंहतपरार्था इति द्रष्टव्यम् । असंहतपरश्चात्मैवेत्यनुक्ताप्योत्मार्थता साध्या । इत्येतत् तत्रैव प्रदर्शयिष्यते। तस्मात् स्थितमिदम्-वादिप्रतिवादिनोर्विवादास्पदे वादिना यत् साधयितुमिष्टं वस्तु तद् .. वचनेनोक्तमनुक्तं वा प्रस्तावगम्यं सर्वं साध्यमित्युच्यते ।
अनेनेति [पृ०२१ पं०१३] समस्तलक्षणेनेत्यर्थः। धर्मविशिष्ट धर्मिणः पक्षत्वेऽभिहितेऽनित्यः शब्द इत्यादिके समुदिते पक्षवाक्ये यत् पक्षतया न भवति तदर्शयन्नाहततश्चेति [पृ०२१ पं०१४] । धर्मस्य धर्मिणो वा यः स्व आत्मा तस्य तन्त्रमधीनं
स्वतन्त्रमेकाकि सद् विशेषणविशेष्यभावनिरपेक्षं धर्मधर्मिरूपमुभयं न पक्ष इत्यर्थः। न क तयोः संबन्ध इति [पृ०२१ पं०१४] । तयोर्धर्मधर्मिणोराधाराधेयरूपस्तादात्म्यादिरूपो वा 0 यः संबन्धः सोऽपि न पक्ष इत्यर्थः ।।
___ अथेह किमेतावता पक्षलक्षणं परिपूर्णं जातमाहोश्विदन्यदपि किमप्यपेक्षणीयमित्याहइह चेत्यादि [पृ०२१ पं०१६] । इहेति पक्षलक्षणविचारे । लक्षणस्य हि त्रयो दोषा भवन्ति, यथा अव्याप्तिरतिव्याप्तिरसंभवश्चेति ।
15
-
१ भवतीति J. ॥ २ °प्यात्मता C.॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org